________________
२२४ - मानसोल्लासः।
[अध्यायः ४ तस्मादवतरेदश्वात्स्तूयमानश्च बन्दिभिः । तोकारदेशसम्भूतं सर्वलक्षणसंयुतम् ॥ १६ ॥ शिक्षितं जवसम्पन्नमारोहेत्तुरगोत्तमम् । ततो मण्डलवारीषु(धारासु) धारयेत्तत्तु(न्तु)रङ्गमम् ॥ १७ ॥ अन्तर्वल्गों समाकृष्य बहिर्वला(ल्गा)कृताश्रयः । दृढाँक(रु)श्वलजङ्घश्च स्थिरहस्तोऽश्लथासनः ॥ १८ ॥ विस्तृतोरस्थलश्चैव बाह्यकर्णाग्रदन्तदृक् ॥ अङ्गुष्ठाग्रेण सम्पीड्य पादाधारयुगं दृढम् ॥ १९ ॥ परतो मध्यपदिन पाणिभ्यां ताडयेद्धयम् । विगत्या परिगच्छन्तं कशाघातेन ताडयेत् ॥ ८२० ॥ वाग्भिः सन्तर्जयेदश्वमूरुभ्यां परिपीडयेत् । धारासु वर्धयेद्भावं क्रमेण च विवर्त(त)येत् ॥ २१॥ कृषितं सात्वयेदेनं स्कन्धास्फालनमाचरेत् । सव्यापसव्यचारीषु तां तां वल्गां समाकृशेत् ॥ २२ ॥ वीथ्यामुत्प्लवने धार्य सम्यग् वल्गाद्वयं समम् । एवं वाहनविद्यायामुत्कर्ष दर्शयेन्नृपः ॥ २३ ॥ रञ्जयन् प्रेक्षकाँल्लोकानश्वविद्याविशारदान् । अन्तःपुरपुरन्ध्रीभिः कृतनीराजनाविधिः ॥ २४ ॥ स्वर्णवस्त्रैरलङ्कारैस्तोषयेदश्ववाहकान् । स्तूयमानो जनैः सर्वैर्गीयमानश्च गायकैः ॥ २५ ।। कविभिः पैठ्यमानस्तु प्रविशेद्राजमन्दिरम् । एवं तुरगवाह्यालीविनोदः कथितो मुदा ॥ २६ ॥. .. भूलोकमल्लदेवेन जगदानन्ददायिना । विनोदो वाजिवाह्यालीसङ्गतः प्रतिपादितः ॥ २७ ॥
इति तुरगवाह्यालीविनोदः ॥ ४॥ १D ततु । २ A लां, ला । ३ D ल्ग । ४ A ढ। ५ A pऽग्र। , A पठेन । A णि । D.सुधासु । ९ A न्धस्याला। १. D लम्बां वल्गां। ११ A बलां । १२. A ला । १३ A ततः । १४ A पा । १५ ह।
Aho ! Shrutgyanam