________________
विंशतिः४]
मानसोल्लासः। शोणेन चर्मणा नद्धा मुखे कृष्णेन गुंण्ठिताः । पञ्चाङ्गुलपरीणाहा गेदिकाश्चा(प)मात्रिकाः॥४॥ शोभिना हेमपट्टेन कचिद्रत्नविभूषिताः । प्रगृह्य मेदिकाः सर्वे पक्षद्वितयसादिनः ॥ ५ ॥ आरोहेयुर्वरान् वाहान् स्वतोरणसमीपगाः । सुवृत्तं कन्दुकं क्लुप्तं पारिभद्रकदारुणा ॥६॥ चर्मणा वेष्टितं भव्यं लोहितं दृष्टिरञ्जनम् । दुवाल्या प्रेरयन्नवं गेर्दिकाग्रेण भूतले ॥ ७ ॥ कन्दुकं चालयेदेकः परतोरणसम्मुखम् । तत्पक्षाश्चानुगच्छेयुः प्रतिपक्षाश्चसम्मुखम् ॥ ८ ॥ आगच्छेत ततस्त्वेकः कन्दुकं ताडयन् बलात् । जवयुक्तेन वाहेन प्रतीपं कन्दुकं नयेत् ॥ ९ ॥ प्रतिपक्षस्तथैवान्यः कन्दुकं परिवर्तयेत् । एवमन्योन्यसङ्घर्षाद्यातायातैश्च कन्दुकम् ॥ ८१० ॥ क्रीडन्तः प्रेरयेयुस्ते बहुधीतैरनेकशः। पुरोघातेन तेष्वेकः पश्चाद्वातेन चापरः ॥ ११ ॥ तिर्यग्घात तै)स्तथा चान्यो बहिर्घात(तै)स्तथेतरः । गेडि(दि)काग्रेण सङ्गृह्य नयेतान्यो विहायसा ॥ १२ ॥ गगनस्थं परः सादी ग्रेडि(दि)काग्रेण धारयेत् । अपरश्चश्विवारोऽपि तैमादायाम्बरान्नयेत् ॥ १३ ॥ एवं सङ्कुल बातेन कन्दुकं भुवि चाम्बरे । नयन्तस्तोरणस्यान्तर्बहिनिष्कास्य कन्दुकम् ॥ १४ ॥ जयं लभन्ते तत्पशास्तूर्यनादविग्रॅम्भितम् । विनोद्य कन्दुकेनैवं जयमासाद्य भूपतिः ॥१५॥
१ A शौ । २ A गण्ठिता । ३ D डि । ४ D टुम । ५ A का । ६ D डि । ७ D णम् । ८ D डि SAश्व । १. D युः । ११ Dघा । १२ A धायै । १३ A दि । १४ Dश्व तथा सादी। १५ जापात मगनं नयेत् । १६ D ल।
Aho ! Shrutgyanam