________________
२०४
मानसोल्लासः ।
निषदी त्रिविधो ज्ञेयो रेखायुक्तिबलैर्युतः । अमो मध्यमः श्रेष्ठः सर्वैस्तैरुत्तमोत्तमः ॥ ७६ ॥ मात्राभ्यामपराभ्यां च पार्श्वभ्यामपि रज्जुभिः । कणा धृत्वा मुखे प्रोक्तं वृक्षादेरधिरोहणम् ॥ ७७ ॥ एतान्येवावरोहे स्युरापतः कर्णतो रैणम् (णे ) । एवं दशविधं प्रोक्तमवरोहणलक्षणम् ॥ ७८ ॥ प्रविश्यासनमुत्कृष्टं मध्यं मध्यसमासनम् । पादाग्रेणावकृष्टं स्यादासनं त्रिविधं स्मृतम् ॥ ७९ ॥
मन्दादिजातौ युद्धे च प्रोक्तमुत्कृष्टमासनम् । भद्रादिजातौ धावे च मध्यमासनमिष्यते ॥ ५८० ॥ अवाग्रे मृगजातौ तु शिरोविधृतितत्परे । अवकृष्टासनं शस्तं मातङ्गानां यथाक्रमम् ॥ ८१ ॥ समं दृढं च संलग्नं जानुसन्धि समाहितम् । आसनत्रितयेऽप्येवं सौष्ठवं परिकल्पयेत् ॥ ८२ ॥
गजस्य प्रेरणार्थ यत् पुरस्तादासनं वपुः । करोतु यन्ता प्रणिधेन (धिर्ना ) नासौ (सा) बनतो मतः ॥ ८३ ॥
अङ्कुशे त्वथो (घो) वाऽपि घातार्थ कुरुते वपुः । तिर्यग्वक्त्रं स विज्ञेयः पार्श्वावनतसंज्ञकः ॥ ८४ ॥ आकृष्ट (प्य) पृष्ठतो नागमुत्तानं कुरुते वपुः । यत्र यन्ता स प्रणिधिः पृष्ठावनतनामकः ।। ८५ ॥ गजस्य भयनाशार्थं कोपोपशमनाय च ।
सान्त्वनं क्रियते वाचा सीं भवेदुपलाघ ( प ) ना || ८६ ॥
99
१२
गजस्य शिक्षितं भावं क्रियया यत्प्रभाषते ।
प्रज्ञापनाख्यः प्रणिधिः स ज्ञेयो गजशिक्षकैः ॥ ८७ ॥
[ अध्यायः ३
१ A षाथी F धादी । २ Dया । ३ A तरेण F तरेणं । ४ D तः । ५A नासावनगतो F नासौवनो । ६ A नारथवा F नरथावा । ७ A वक्रं । ८ Dष्टं । ९ Aग । १० D स्याद्भेद । ११ D तान् । १२ D वान् । १३ A यायां । १४ A रूया ।
Aho! Shrutgyanam