________________
विंशतिः४]
मानसोल्लासः।
२०३
जघने दन्तयोर्वापि कुर्याच्चूर्णेन लाञ्छनम् । मार्टि वा तत्कृते चान्यः प्रतिज्ञाधावनत्विदम् ॥ ६४ ॥ प्रतिज्ञापारगो यः स्यान्जयस्तस्य प्रकीर्तितः । प्रतिज्ञापगमे वापि मारणे वा गजो जयी ॥६५॥ नृपभूमौ लिखेद्रेखां विंशत्या कार्मुकै भुवि । गजस्य धावतश्चान्तस्तिर्यग्यायी जयी भवेत् ॥ ६६ ।। लग्नश्च येन्निषेर्धाय धावको विजयी भवेत् । तयोरन्यतरस्यापि मारणे वारणों जयीं ॥ ६७ ॥ युगपंद्धावतो पृष्ठे यस्य सीकरसङ्करः । जयं तस्य विजानीयात्तद्वधे हस्तिनो जयम् ॥ ६८ ॥ उत्तमो दन्तिनो भूमौ भूपभूमौ तु मध्यमः । कनिष्ठो निजभूमौ च स्थापनीयो यथाक्रमम् ॥ ६९ ॥ उत्तमो मध्यमं गच्छेन्मध्यमश्चाधमावधिम् । अधमो निजभूम्यन्तं धारयेयुर्गजं क्रमात् ॥ ५७० ॥ अनया परिपाट्यैवं निजां भूमि नयञ्जयी । एवं कर्तुं न शक्नोति हतेऽस्मिन् वारणो जयी ॥ ७१ ॥ बद्धहस्तो यदा चोरः पुरो धावति हस्तिनः । गतापराधो जीवेचेद्धतः पापात्प्रमुच्यते ॥ ७२ ॥ जवाधिकस्य नागस्य वाजिनो धावनं पुरः । सीकराः सादिनः पृष्ठे निर्गतौ सादिनो जयः ।। ७३ ॥ वलयं दन्तिनो द॑न्ती(न्ते) सादी क्षिपति दन्तिनः । अन्यो हरति दण्डेन तत्राशक्तः पराजितः ॥ ७४ ॥ धावभेदाः समाख्यातास्तथा जयपराजयौ ।
इदानीं तु प्रवक्ष्यामि गजारोहणलक्षणम् ॥ ७५॥ १A वान्यः । २ D के भु। ३ D नं श्राA तश्वा । ४ A लग F गल । ५ A ल । ६ A धावको। ७D णे । ८ A या। ९ D पद्व्यापनः पृष्ठो A वद्धा । १० D च अ F चेह । ११ A कान्त । १२ D तक।
१३D ध। १४ D चलनं। १५F दिती। १६A भिः ।
Aho! Shrutgyanam