________________
विंशतिः 8 ]
मानसोल्लासः ।
ततः प्रवेशितान्सर्वान्यथाईमुपवेशयेत् । वीरेडव्वनिं श्रुत्वा प्रहर्षोत्फुल्लमनसः || ५४१ ॥ गजाध्यक्षं समादिश्य परिकारान्समाह्वयेत् । प्रच्छादनपटच्छन्ना अन्तर्विहितमण्डनाः || ४२ ॥ अहमहमिकाक्रान्ता विज्ञपेयुः पृथक् पृथक् । परिपृच्छेत्ततो राजा तेषां धावनकारणम् ॥ ४३ ॥ अ(आ)वां मत्सरिणो(णौ) देव वयं कनककाङ्क्षिणः । मया द्विपासनं रुद्धमहं परिभवान्वितः ॥ ४४ ॥
प्रतिज्ञतु (तु) समारूढो जवतोऽहं नराधिप । इति विज्ञाप्यमानस्तैर्यथायोग्यं समादिशेत् ।। ४५ ।। उत्तमो मध्यमो हीनस्त्रिविधः परिकारकः । एतेषां लक्षणं वक्ष्ये जवोत्कर्षात्पृथक् पृथक् ॥ ४६ ॥
प्रथमा द्विप भूमिः स्यात्मध्यमा नृपतेर्मही । तृतीया परिकारस्य भूमिरेवं त्रिधा मता ॥ ४७ ॥
प्रथमायां द्वितीयायां हस्तं निष्कासयन् भुवि । तृतीयायां परित्यज्य यो धावति सत्तम: ।। ४८ ।। मध्यमस्य च नागस्य विधिना प्राक्तनेन यः । पुरो धावति स ज्ञेयो मध्यमः परिकारकः || ४९ ।। कनिष्ठस्य तु नागस्य प्रागुक्तविधिना तु यः । अग्रे धावति से ज्ञेयः कनिष्ठः परिकारकः ।। ५५० ॥ अग्रिमस्य पदाङ्कस्य पार्श्वात्यः पुरतो भवेत् । ज्ञेयः स उत्तमजवो वाजिनामपि घातकः ॥ ५१ ॥
दशधन्वा(न्वन्तरस्थे(स्थं) वा पटी (रि) कारं जवाधिकम् । पञ्चाशदन्तरे हन्ति दन्त्यसाबुत्तमो जवे ।। ५२ ।
૨૦૬
१ A वार। २ D लोचनः । ३ A अहमहाकान्ता । ४ D च्छत । ५ A द्वीपा D द्विप्या । ६D ज्ञातुमसौ । ७ A तीयां । ८ D उ । ९D कृते । १० A वि । ११ Aवि । १२D श्रन्त्यः | १३ A तु ।
२६
Aho! Shrutgyanam