________________
विंशतिः ४]
मानसोल्लासः।
१२२
तोरणौ द्वौ प्रकुर्वीत द्वारयोः सुमनोहरौ । प्राङ्मुखोदङ्मुखो(खीं) वापि वाह्याली परिकल्पयेत् ॥ १७॥ पूर्वाभिमुखवाह्यालीदेक्षिणं मध्यभागतः । उपान्ते वृत्तिसंश्लिष्टं कुर्यादालोक्यमन्दिरम् ॥ १८ ॥ उच्चाधिष्ठानमूर्द्धस्थं परिखापरिवेष्टितम् । विशालं च सुरम्यं च पृष्टभित्तिसमन्वितम् ॥ १९ ॥ सुधाधवलितस्तम्भैः काञ्चनैः परिशोभितम् । नानावर्णवितानाढ्यं काचकुटिमकल्पितम् ॥ ५२० ॥ परिखायां परिन्यस्तैः फलकैः कृतमार्गकम् । निःश्रेणीकल्पितारोहं वारणानां निवारणम् ॥ २१ ॥ . गेहमन्यं प्रकुर्वीत परिखायास्तु वाह्यतः । ईषत्पश्चात्प्रदेशे तु दक्षिणं भागमाश्रितम् ॥ २२ ॥ परिखावेष्टितं तुझं चित्रभित्तिसमन्वितम् । सुरम्यं सुविशालं च परमण्डलिकाश्रयम् ॥ २३ ।। आलोकमन्दिस्याग्रे लालवेडी जालवेदीं) प्रकल्पयेत् । निखातैरष्टभिः स्तम्भैः पार्श्वद्वयनिवेशितैः ॥ २४ ॥ स्थूलदीघार्गलद्वन्द्वी दृढकीलकधारिताम् । द्विपवक्षःस्थलोत्सेधा पार्श्वयोर्गत(त)संयुताम् ॥ २५ ॥ अन्यामीग्विधां कुर्याद्धविनान्तोष(प)योगिना(नी)म् । पूर्वद्वारसमीपे तामुत्तरां दिशमाश्रिताम् ॥ २६ ॥ एवं लक्षणसंयुक्तां वाह्याली परिकल्प्य च । महत्तरेण विज्ञप्तः कृतदेवार्चनक्रियः ॥ २७ ॥ आघोष्य डिण्डिमं राजा पुरवीथ्यां चतुष्पथे ।
तुन्दिलैगर्भिणा(णी) दृन्दैालैः पादाङ्गकुण्ठेि तैः ॥ २८ ॥ १ A F ल्या । २ A F णा । ३ A र्धभागस्थं । ४ A धा । ५ D तैः । ६ D पार्थात् F पाश्चात्य ।
D लाक्षं । ८D ण्डी Fद्वंद्वाडां। ९A न्दां। १०D धारितम् । ११D वाचना। १२D स्फाल्य । १३ D तं। १४A कुठि।
Aho! Shrutgyanam