________________
विंशतिः४]
मानसोल्लासः।
न रुष्यति भवत्येको निद्रालुः सततं भवेत् । शिक्षाकाले धृतस्यैतल्लक्षणं परिदृश्यते ॥ २१॥ गम्भीरं वेदनं तस्य कर्म शीघ्रं न शिक्षति । शिक्षितं विस्मरत्याशु मत्तः स्मरविशिक्षितः ॥ २२ ॥ मन्दकोपो गतौ स्तद्यो (ब्धो)मन्दो मातङ्ग ईदृशः । गात्रापरं करः पुच्छं न स्थूलं न कृशं समम् ॥ २३ ॥ विशालमुन्नतं वक्षो धनुराकारवंशकः । कुम्भौ च ना (वा)तकुम्भश्च कटौ चापि प्रवेश(ष्ट)कौ ॥ २४ ॥ स्थूल(ला)दन्ता भवन्तीह विपुलं श्रवणासनम् । वैराहजघनश्चैव छागकुक्षिमनोहरः ॥ २५ ॥ समस्निग्धा नखा दन्ता लोचने मधुपिङ्गाले । गौरवर्णोऽत्युदग्रश्च कृष्णविन्दुविराजितः ॥ २६ ॥ आतानं तालुजिह्वोष्ठमेतद्भद्रस्य लक्षणम् । बने यूथस्य पुरतो यात्याहारविहारयोः ॥ २७॥ मेघभेरीस्वनाद्भीतिं नैति हृप्यत्यनाकुलः । समानीतो वनात्कर्मकाँले सो(ऽस्या)न्थवेदना ॥ २८ ॥ आशुग्राही सुशीलश्च न विस्मरति शिक्षितम् । कर्मशूरः स्वयं शूरो रूपलक्षणसंयुतः ॥ २९ ॥ ईदृशो भद्रजातिः स्यात्कुञ्जरो विजयावहः । मिश्रस्तुभयसंयोगे सङ्कीर्णस्त्रिगुणो मतः ॥ २३० ॥ भद्रमन्दो भद्रमृगो मन्दभद्रस्तथापरः । मन्दमृगो मृगभद्रो मृगमन्दश्च मिश्रकः ॥ ३१ ॥ भद्रमन्दमृगश्चैको भद्रो वा मृगमन्दयोः । मन्दभद्रमृगश्चान्यो मन्दो वा मृगभद्रयोः॥ ३२ ॥
१ A शि । २ D तिः। ३ D ब्धा । ४ D वा । ५ A भवः । ६ A F घु । ७ D लस्तत्त्वार्थवेदने । Fख। ९ A गो।
Aho ! Shrutgyanam