________________
मानसोल्लासः।
[ अध्यायः३ प्रभेदनैर्वर्धनैश्च गन्धवर्णकरैस्तथा। दोषो(दो)त्पादनकैः पिण्डैर्जातिधात्वनुसारतः ॥९॥ गजानुपचरेद्राजा प्रयत्नादन्नपानकैः। तत्रादौ जातयो ज्ञेया त (स्त)स्माद्वक्ष्यामि लक्षणम् ॥ २१० ॥ गात्रापरं नखा दन्ताः कोशो मध्यं करं गलः । तनून्येतानि दीर्घाणि शीर्ष पृष्ठं च वालधिः ॥ ११ ॥ तलानि चिबुकं चैव इस्वानि च भवन्ति हि । समदौ च कटौ कुक्षिः कर्णौ च तनवो भृशम् ॥ १२ ॥ अङ्गुली हनुकेशं च वक्षः कुब्जं प्रदृश्यते । यस्य श्यामो भवेद्वर्णः कृष्णे स्थूले च लोचने ॥ १३ ॥ आकार ईदृशः प्रोक्तो वनचारस्तु कथ्यते । एकाकी न प्रयात्येष गोप्रचारं च गच्छति ॥ १४ ॥ यूथानुवर्ती भीरुश्च चलचित्तो वने मृगः । धृतस्य कर्मकाले तु भवेदुत्तानवेदिता ॥ १५ ॥ दुःशीलता च चापल्यं लक्ष्मैतन्मृगदन्तिनः । उरो मुखं तथा कणों विशालानि भवन्ति हि ॥ १६॥ गात्रापरं शिरो दन्ताः सगदे(द) वर्मकन्धरम् । केशा वालाश्च रोमाणि स्थूलानि च भवन्ति हि ॥ १७ ॥ वालधिः पृष्ठवंशश्च चिबुकं हस्त एव च । भवन्त्यतानि दीर्घाणि लम्बते मेढ़कोशकम् ॥ १८ ॥ भेककुक्षिसमाकुक्षि लो(लो)चने कपिले शुभे । कृष्णमेघनिभो वर्णः सर्वाङ्गे परिपीनता ॥ १९ ॥ जाड्यं च बलिबाहुल्यमाहुर्मन्दस्य लक्षणम् । वने तु वसतस्तस्य शशादेनं भयं भवेत् ॥ २२० ॥
१ A र इव । २ D बलिचित्ता। ३ D च । ४ लश्च । ५A श्च । ६ D वर्ण । . D
A हो ।
Aho! Shrutgyanam