________________
१८९
विंशतिः ४]
मानसोल्लासः। निग्राह्योपेक्षणं नाम निग्रहस्थानमुच्यते । अनिग्रहे निग्रहस्य यदुद्भावनमुच्यते ॥ ९७ ॥ अनिग्राह्यं तु योगोऽयं दूषणत्वेन कीर्तितः। स्वसिद्धान्तं परित्यज्य यदुच्छृङ्खलभाषणम् ॥ ९८ ॥ अपसिद्धान्तनामेदं निग्रहस्थानमुच्यते । अपक्षधर्मो हेतुर्यः सोऽसिद्धः परिकीर्तितः ॥ ९९ ॥ साध्यधर्मविरुद्धो यः विरुद्धः परिकीर्तितः । पक्षत्रितयगामी यः सोऽनैकान्तिक उच्यते ॥ २००॥ कालात्ययापदिष्टोऽयं पक्षे योऽन्येन बाध्यते । सन्देहहेतुभूतेन बाध्यो यः प्रतिहेतुना ॥ १ ॥ हेत्वाभासः स विज्ञेयः समः प्रकरणेन सः। ततो विवदमानेषु निग्रहस्थानवर्त्मनि ॥ २॥ स्थितानामजयं ब्रूयादितरेषां जयं नृपः । इति शास्त्रविनोदेन दिनशेषं नयेन्नृपः ॥३॥ कवीनां तार्किकाणाञ्च प्रसादं भूरि दापयेत् । उक्तः शास्त्रविनोदोऽयं सोमेश्वरमहीभुजा ॥ ४ ॥
इति शास्त्रविनोदः ॥ २ ॥ इदानीं गजवाह्यालीविनोदः परिकीर्त्यते । गजैविनोदैन(नं) कुर्याद्वाह्याली सङ्गतो नृपः ॥५॥ सङ्ग्रामार्थ श्रमस्तेषां कार्यों यवनयोधने । मदहीना न धावन्ति न युध्यन्ते मतङ्गजाः ॥६॥ मद एव गुणस्तस्मात्तदर्थ यत्नमाचरेत् । बृंहणैः कवलैर्वृष्यैस्तदासञ्चय(अन)कारणैः ॥७॥ व्यस्तारकारकैश्चान्यैर्मुखवर्धनकैरपि । करवृद्धिकरैर्योगैः कटैंशुद्धिकरैरपि ॥ ८॥
१ A omits this line। २ D स सिद्धः । ३ दं। ४A द्वागजा । ५ A व्या D व्यस्तारककरै । ६० ।
Aho! Shrutgyanam