________________
१८८
मानसोल्लासः।
[अध्यायः २
समीकरणबुध्या यः प्रसङ्गो जातिरित्यसौ । प्रतिदृष्टान्तसरणं प्रतिज्ञाहानिरिष्यते ॥ ८५ ॥ अर्थान्तरस्य निर्देशः प्रतिज्ञान्तरमुच्यते । से प्रतिज्ञाविरोधो यद्वैरं हेतुपतिज्ञयोः ॥ ८६ ॥ प्रतिज्ञायाः परित्यागस्तत्सं(स सं)न्यासो विधीयते । विशेषरहिते हेतौ दूषिते प्रतिवादिना ॥ ८७ ॥ सविशेषस्य कथनं हेत्वन्तरमुदाहृतम् । प्रकृतार्थपरित्यागात्तदसम्बद्धभाषणम् ॥ ८८ ॥ अर्थान्तरमिति प्रोक्तं निग्रहस्थानसन्निधौ । वारत्रितयमुक्तोऽपि पर्षदा प्रतिवादिनीं ।। ८९ ॥ यन्न वेत्ति परः सम्यगज्ञानाख्यं तदुच्यते । प्रतिज्ञादेः क्रमं त्यक्त्वा क्रमव्यत्ययसङ्ग्रहः ॥ १९० ॥ अप्राप्तकालं तत्प्रोक्तं निग्रहस्थानवेदिभिः । केनाप्यवयवेनात्र हीनं तन्न्यूनमुच्यते ।। ९१ ।। हेतूदाहरणाधिक्यादधिकं तद्विदुर्बुधाः। अनुवादं परित्यज्य पुनस्तस्यैवें भाषणम् ।। ९२ ॥ शब्दस्यार्थस्य तत्प्रोक्तं पुनरुक्तं मनीषिभिः । विज्ञातस्य पदार्थस्य त्रीन्वारान् भाषितस्य च ॥ ९३ ॥ नांनुवादः परोक्तस्य भवेत्तद(दन)नुवादनम् । उत्तरस्य यदज्ञानमुक्ती त्वप्रतिभा बुधैः ॥ ९४ ॥ अन्यकार्यात्कथाभङ्गः कथाविक्षेप उच्यते । अभ्युपेत्य निजं दोषं परदोषस्य भाषणम् ॥ ९५ ॥ मतानुज्ञेति सा प्रोक्ता दोषोद्भावनवेदिभिः । प्राप्तस्य निग्रहस्थानं तदनुद्भावनं च यत् ॥९६॥
१ A ब। २ A F सं। ३ A यं द्वैरं F A वै। ४ F सत्सं। ५ A तापा। ६ A ता। ७D ग् ज्ञानाख्यं A तन्यू । ९A स्यव। १.A......नानुवादनं । ११Dप। १२ Dक्त । १३ यक। १४ Dतु।
च।
Aho ! Shrutgyanam