________________
विंशतिः ४ ]
अमू
मानसोल्लासः ।
एवं काव्यकथाः श्रुत्वा विचार्य च गुणागुणौ ! ततस्तु तार्किकान् राजा कौतुकेन विवादयेत् ॥ ७३ ॥
कुलेन विद्यया ख्यात्या समयोर्वाद इष्यते । वादस्य विषयो गीतं नृत्तं वा वाद्यमेव वा ॥ ७४ ॥
स्वपक्षे साधनं यत्र परपक्षे च दूषणम् । सिद्धान्तेनाविरोधश्च सम्बन्धश्च प्रतिज्ञया ।। ७५ ।।
हेतुदृष्टान्तयोर्योगों निगमोपनयौ तथा । ' पक्षस्य प्रतिपक्षस्य ग्रहो वादः स उच्यते ।। ७६ ॥
साध्यधर्मविशिष्टस्य धर्मिणो यत्तु कीर्तनम् । प्रतिज्ञा नाम सा प्रोक्ता हेतुस्तत्साधनं विदुः ॥ ७७ ॥
साध्यसाधनयोर्यत्रविनाभावः प्रदर्श्यते । तदुदाहरणं प्रोक्तं निगमः पक्षनिर्णयः ॥ ७८ ॥
दृष्टान्ते कथितव्याप्तेर्हेतोः पक्षोपसंहृतिः ।
चाप्युपनये (यः) पक्षे (क्ष) धर्मख्यापनयोच्यते ॥ ७९ ॥
उपनयः पक्षधर्मख्यापनाय । पयुज्यते । शिष्यस्य गुरुणा सार्धं सतीर्थानां परस्परम् ॥ १८० ॥ वस्तुतत्वावबोधाय वादः कार्यो विमत्सरम् । जातिभिर्निग्रहस्थानैश्छलैरपि समन्वितः ॥ ८१ ॥ स एव वादो जल्पः स्यात् ख्यातिपूजादिहेतुकः । स्थापनं प्रतिपक्षस्य जल्पे यस्मिन्न विद्यते ॥ ८२ ॥
वितण्डा नाम सा प्रोक्ता पूर्वोक्तफलसिद्धये । स्थ (छ) लमस्य विकल्पेन परवाक्योपघातनम् ॥ ८३ ॥
सामान्येनोपचारेण वचनेनेति तत्रिधा । प्रयुक्ते साधने सम्यगुत्तराप्रतिभासनात् ॥ ८४ ॥
१८७
१A चार । २ A त्र । ३D ता । ४ D adds this line । ५ A र्मा । ६D रूपो । ७ A द्या । ८ A मे । ९D भासना ।
Aho! Shrutgyanam