________________
विंशतिः४]
मानसोल्लासः।
अविरोध्यपि यद्वस्तु विरुद्धमिव भाष ( स ) ते । यत्र सोऽयमलङ्कारो विरुद्ध इति कथ्यते ॥ १ ॥ हारयोगेऽपि दारियं न जहात्युदरं तव । . अधस्थमपि वामोरु गुरुतां जघनं गतम् ॥२॥ निर्वेदादथ सन्तोषादन्यदेव प्रशस्यते । अप्रस्तुतप्रशंसेयमाख्याता कविभिः पुरा ॥ ३ ॥ अपि वर्षसहस्राणि भ्रान्त्वा नो लभ्यते मरौ । तरुच्छाया दलं मूलं फलं जलमनाविलम् ॥ ४ ॥ अज्ञानाद्वा प्रसङ्गाद्वा बुद्धिपूर्वमथापि वा। आमृष्टममृतं येन स भवत्यजरामरः ॥५॥ निन्दाव्याजेन यत्किञ्चिच्छ(स्तू)यते सविशेषणम् । व्याजस्तुतिरिति ख्याता नागरोक्तिविशारदैः ॥ ६ ॥ अधुनापि न शुष्यन्ति समुद्राः सप्त भूपते । महतापि किमेतेन त्वत्प्रतापौग्निना कृतम् ॥ ७ ॥ अर्थेऽन्यस्मिन् प्रवृत्तेन किश्चित्तत्सदृशं फलम् ॥ निर्दिश्यते प्रतीत्यर्थ तन्निदर्शनमुच्यते ॥ ८ ॥ खलं खलु [णाः प्राप्य भजन्ते दोषरूपताम् । अहिवळ समासाद्य दुग्धं सम्पद्यते विषम् ॥ ९॥ गुणानां कर्मणां वापि सहभावो निबध्यते । यत्र काव्ये समाख्याता परिवृत्तिरियं बुधैः ।। ११० ॥ राजन्धर्मकरं स्तुत्यं सततं यत्सुखावहम् । तद्दत्वा द्रविणं कीर्तिमग्रहीस्वमनश्वरीम् ॥ ११ ॥ रणरङ्गाङ्गणे वीर शस्त्राणि पततां द्विषां । प्राणमात्राभयं दत्वा सर्व धर्म त्वमग्रहीः ॥ १२ ॥
।
. १A व । २D दुच्य । ३ A पो। ४ A ग । ५ A कं । ६ D मृत्युं । ७ A त्वग्द । ८ A स्थ।
Aho ! Shrutgyanam