SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ विंशतिः ४) मानसोल्लास। १७७ क्षीरेण नीरं घटते सद्भिः सन्तो मिलन्ति च । चक्राहाश्चक्रवाकीभिः सङ्गच्छन्ते दिनागमे ॥ ५३॥ पुष्पिता रचयत्येष वनमाली मधूत्सवः । पुष्पितां कुरुते तन्वी नवयौवनसङ्गमः ।। ५४ ॥ विधेयार्थस्य सिध्यर्थं साम्यादन्यार्थभी(भा)षणम् । सोऽयमर्थान्तरन्यासः कथितः सोमभूभुजा ॥ ५५ ॥ पक्काम्रकदलीद्राक्षाफलाढ्येऽपि वने वसैन् । करभः कण्टकान्वाञ्छत्यधमो ह्यधमप्रियः ॥ ५६॥ उक्त्वा सादृश्यमन्योऽन्यमुपमानोपमेययोः। उपमेयस्य भेदोक्तिय॑तिरेकः स्मृतो बुधैः ।। ५७ ॥ सुवंशजो गुणयुतो निर्जितारातिमण्डलः। दत्तपृष्टो रणे चापस्त्वं पुनः सम्मुखः सदा ॥ ५८ ॥ प्रतीतारणत्यागाँधत्र कार्यमुदीर्यते । हेत्वन्तरात्स्वभावाद्वा सेयमुक्ता विभावना ॥ ५९ ॥ ... दिग्वधूमुखमाभाति विना चन्दनचर्चया। . ... अतीवपाण्डुरच्छायं सान्द्रं चन्द्रमरीचिभिः ॥६०॥ दोषेष्वशिक्षितैः सद्भिः कदाचिन्न प्रदुष्यते । कलुषं साधुवृत्तेषु तथापि खलु मानसम् ।। ६१ ॥ इष्टमर्थमनुक्ता(क्त्वा)न्यैः साभिप्रायैर्विशेषतः (णैः)। यदुच्यते समासेन सा समासोक्तिरिष्यते ॥ ६२ ॥ ऋजुभिः सफलैः सा(3)गुणसङ्गमशालिभिः। पत्रिभिः सङ्गन्तो हन्ति वैऋश्चापः पुरस्थितम् ॥ ६३ ॥ अर्थस्य प्रतिपाद्यस्य यः सम्भाव्यः प॑दश्यते । उत्कर्षोऽतिशयोक्तिः स्यात् सोऽलङ्कारः कविप्रियः ॥ ६४॥ .. .१ A ली । २ A न्वी। ३ D द्धार्थात् । ४ D ध्यादन्यत्रभा । ५ D सेत् । ६. A क । ७ A गोय । ८ A दा। ९ A व । १० A खं । ११ A धर्ममु । १२ D साधैः । १३ - F च । १४ A पं.। १५ Aध । १६ D दृश्य । १७ A तिस्यात् । Aho ! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy