________________
१७६
मानसोल्लासः ।
अथ क्रिया.
ऊर्ध्वरोमा लश्रोत्रः पुच्छं कुण्डलतां नयन् । कामुकः पृष्ठमारोहन हरिणीमनुधावति ।। ४३ ।।
अथ गुणः घनगर्जितमाकर्ण्य घनदानविभूषितः । घनवारिमदस्रावी गजोऽयं मदर्जनः ॥
इति क्रिया ।
४४ ॥
इति गुणः ।
अथ द्रव्यम्
अतसीपुष्पसङ्काशः पद्मपत्रायतेक्षणः । शङ्खचक्रगदापाणिर्दृश्यते गरुडध्वजः ॥ ४५ ॥
इति द्रव्यम् ।
गुणजातिक्रिया द्रव्यवाच्येत्र स्थितं पर्देम् । सर्वैः सम्बध्यते वाक्यैर्दीपकं तत्प्रचक्षते ॥ ४६ ॥ श्वेतिमा दृश्यते शङ्खे क्षीराम्भोधौ सुधाकरे । दिग्दन्तिदशने कुन्दे यशःसुँ तव भूपते ।। ४७ ।। भद्रो नगेन्द्रः कुरुते स्वामिनो जयसम्पदम् । मदयत्यूर्जितं राज्यं रिपूनभिभवत्यौ ॥ ४८ ॥ कुरुते तत्र सङ्गीतं तद्विदां चित्तरञ्जनम् । कामिन्या मन्मथोल्लासं सन्तापं च वियोगिनाम् ॥ ४९ ॥ विष्णुना निर्जिता दैत्याः सुरास्त्राता महात्मना । योगिनः प्रापिता मोक्षं जनो जति मोहितः ।। २५० ॥ दीपक (i) श्लोकमध्ये तु श्लोकस्यान्ते च दीपकम् | गुणजातिक्रियाद्रव्यसंङ्गि ज्ञेयं विचक्षणैः ॥ ५१ ॥ पदमावर्तते यत्र भिन्नभिन्नार्थवाचि यत् । आवृत्तिर्नाम सा ज्ञेया वचो व्युत्पत्तिकारिणी || ५२ ॥
[ अध्यायः
१ Aथः । २A गर्जिनी । ३ F च्यते । ४ A दाम् । ५ A चते । ६- A स्तु
AAय । १० Aङ्गी । ११ A यन् । १२ D वैत्यप
Aho! Shrutgyanam
A