________________
१७५
vav५.
विंशतिः ४]
मानसोल्लासः। उद्वर्तयामि गौराङ्गि चन्दनेन किमाननम्। निसर्गमधुरस्यास्य मण्डनेयं विडम्बना ॥ ३६ ॥ रूपं शब्दश्च गन्धश्च रसः स्पर्शक्रियागुणाः। द्रव्यं च वर्ण्यते यत्तु स्वभावोक्तिरसौ मता ॥३७॥ सर्वाङ्गपाण्डुरैः पिच्छैश्चञ्च्वा च कनकत्विषा । हरिद्रापिञ्जरैः पादै राजहंसो विराजते ॥ ३८॥
इति रूपम् । अथ शब्दः वीणाया निष्कलो नादो मधुरः श्रुतिशोभनः । कस्य नो हरते चेतो मृगीमपि वशं नयेत् ॥ ३९॥
___ इति शब्दः। अथ गन्धः अन्येभगन्धमाघ्राय दिशो जिघ्रति वारणः । अत्यर्थ कैरमुत्क्षिप्य कोपारुणितलोचनः ॥ २४० ॥
इति गन्धः। अथ रसः विशालायाः फलं रम्यं लोभादास्वाद्य सत्वतः । व्यादाय वदनं मूढो धुनीते मर्कटः शिरैः॥४१॥
इति रसः । अथ स्पर्शः पीनवृत्तघनोत्तुङ्गस्तनस्पर्श (शि) करोत्पलम् । तन्वङ्गन्या मानसं यूनां लाँधैर्यविवर्जितम् ॥ ४२ ॥
इति स्पर्शः।
१ A णः । २ A झं। ३ D कि । ४ A म । ५A खः । ६ Dशः । ७ A अया।
ज ।
Aho! Shrutgyanam