________________
१७४
मानसोल्लासः।
[अध्यायः
एकदेशेन सादृश्यं बहुसादृश्यमेव वा । यत्र प्रतीयते काव्ये सोपमेति निगद्यते ॥ २५ ॥ सा चापि द्विविधा प्रोक्ता पदवाक्यार्थभेदतः । तत्रोदाहरणं वक्ष्ये पृथक् पृथगिदं यथा ॥ २६ ॥
पदार्थोपमा यथा । इन्दुबिम्बसमानेन वदनेन कृशोदरी। आह्लादयति चित्तं मे कुम्भिकुम्भोन्नतस्तनी ॥ २७ ॥
वाक्यार्थोपमा यथा। वक्ष(क्षः)स्थले विलसता मुक्ताहारेण राजते । सुमेरुरिव गाङ्गन प्रवाहेण नराधिपः ॥ २८ ॥ उपमेयं(ये) समारोप्य कथ्यते यत्र वस्तुनि । उपमानं तेंदा ख्यातं रूपकं पूर्वमूरिभिः ॥ २९ ॥ पुष्पचापस्य तन्वङ्गी परमास्त्रं जगज्जये । मनो हरति लोकस्य लावण्यरसदीर्घिका ॥ २३० ॥ समादाय च सादृश्यमन्यस्यान्यत्र भावनात् । उत्प्रेक्ष(क्ष्य)ते हि यद्वस्तु तामुत्प्रेक्षां प्रचक्षते ॥ ३१ ॥ मधु(म)वैरि(री)विधुस्तन्वि त्वया वक्त्रेण निर्जितः । इतीव सेवते पादौ पद्मकान्ती मृगीदृशः ॥ ३२ ॥ वक्तुं किञ्चिदुपक्रम्य निषेध इव तस्य यः। उत्कर्षापादनायासावाक्षेपः कथितो बुधैः ।। ३३ ॥ तस्याः(स्या)स्तव वियोगोत्थं तापं प्राणान्तकं शृणु। ने वक्ष्ये त्वं दयाहीनः परदुःखसुखी यतः ॥ ३४ ॥ गन्तमिच्छसि चेदाढं गच्छ कान्त यथासुखम् ।
मम यद्भावि तद्भावि नामङ्गल्यं ब्रवीम्यहम् ॥३५॥ १F च । २ A शे । ३ F सि । ४ F से। ५ A तथा। ६ D च । ७ A मा । ८ D हवः । ९D तद । १०A यदाहीनः । ११A न्त ।
Aho ! Shrutgyanam