________________
१७२
मानसोल्लासः।
[ अध्यायः२
उत्पादकांश्च भावज्ञाश्छन्दोविचितिपारगान् । मधुरान् काव्यतत्वज्ञान सर्वभाषाविशारदान् ॥ ३ ॥ आज्ञापयेत्कवीनाजा काव्यं पठत सुन्दरम् । पठ्यमाने ततः काव्ये गुणान् दोषान विचारयेत् ॥ ४॥ शब्दाः शरीरं काव्यस्य प्राणोऽर्थः परिकीर्तितः । अलङ्कारास्तऽकारा(रः) रसा भावाश्च चेष्टिता(तम्) ॥५॥ छन्दोऽस्य पदसञ्चारो नानाप्रकृतयस्तथा । शब्दविद्यास्यं ममैतैः काव्यदेवस्य रम्यता ॥ ६॥ . महापाणाक्षरं श्लिष्टं मिथश्च श्लिष्टवर्णकम् । प्रसिद्धार्थपदाख्यातं प्रसाद इति कथ्यते ॥ ७ ॥ प्रारब्धमार्गनिर्वाहः समता परिकीर्तिता । शब्दार्थों कर्णसुखदौ माधुर्यं तत्पक्ष(क्ष्य)ते ॥ ८॥ अक्षराणां च लालित्यं सौकुमार्य विदुर्बुधाः । निरपेक्षार्थवाचित्वमर्थव्यक्तिरुदाहृता ॥ ९॥ शस्तैर्विशेषणैर्युक्तैरौदार्यमाभिधीयते ।
ओजः समासबाहुल्यं विकटाक्षरसन्धि वा ॥ २१०॥ . लोकानुसारि सम्भाव्यं कथनं कान्तिरिष्यते । समाधिरन्यधर्मश्चेदन्यत्र प्रतिपद्यते ॥ ११ ॥ दोषलेषरसंस्पृष्टा गुणैः सर्वैरलता। वैदर्भी कथिता रीतिः श्रवणश्रव्यकारिणी ॥ १२ ॥ समस्तैरुद्भटैः शब्दैरोज कान्तिगुणान्वितैः।। गौडीया नाम सा प्रोक्ता रीतिः काव्यविचक्षणैः ॥ १३ ॥
१D न्दःशास्त्रविशारदान् । २ D तिपारगान् । ३ A स्वकाव्यं पठयतामसौ। ४ A था। ५ वे । SDन्त आख्यातः । ७AY। ८F थे । ९ A च। १.Dक्तेः। ११DFच! १२ A व्य । १३D तः। १४ A खैः । १५ A णाः । १६ A णः । १७ A टा। १८ A यु ।
Aho! Shrutgyanam