________________
विंशतिः ४ ]
मानसोल्लासः ।
गतागतैश्च गोमुत्रैरुप्नुत्प्लु (लवनुत्नु) तैरपि । पातयन्परघातश्चि प्रहाराशाश्च दर्शयेत् ।। ९२ ।।
उपन्यस्तैरपैन्यस्तैरावर्तपरिवर्तनैः । दर्शयेत्तु गर्दीविद्यां विनोदाय महीपतिः ॥ ९३ ॥
नीराज्यमानो राज्ञीभिः स्तूयमानश्च बन्दिभिः । कविभिर्वर्ण्यमानश्च गीयमानश्च गायकैः ॥ ९४ ॥
आशीर्भिर्वर्धमानश्च जयजीवेतिवादिभिः । पुरोध :ममुखैर्विप्रैर्नन्दवर्धस्वभाषितैः ।। ९५ ।। प्रणम्यमानो भूपालैर्बद्धाञ्जलिपुटैर्नरैः । भजेत्प्रमोदं भूपालः शस्त्रविद्याविनोदनैः ।। ९६ ।। शस्त्रविद्याविनोदोऽयं कथितः सोमभूभुजा ।
इति शस्त्रविद्या विनोदः ॥ १ ॥ अथ शास्त्रविनोदोऽयं विविधः परिकीर्त्यते ।। ९७ ।। देवता विधिनाभ्यर्च्य विप्रान्सन्तोष्य दानतः ।
(d) राजकार्याणि क्षुत्काले विहिताशनः ॥ ९८ ॥
सभामण्डपमध्यस्थः समासीनः शुभासने । विनोदाय कवीन्प्रौढान् गायकान् वादिनस्तथा ।। ९९ ॥ वाग्मिनः पण्डितान प्राज्ञान् सर्वशास्त्रविशारदान् । समाहूय नृपस्तैस्तैरागतैः परिवेष्टितः ॥ २०० ॥
यथोचितासनासीनैराशीर्भिरभिनन्दितः । प्रसन्नकान्तया दृष्ट्या तान् सर्वानवलोक्य च ॥ १ ॥
तत्र शद्रकलादक्षान्निसर्गप्रतिभान्वितान् । रत्नत्रयकृताभ्यासान् सर्वव्यापारकोविदान् ।। २ ।।
१७१
१ D त्योस्य । २ D तैस्तान् । ३ Aथ । ४ A ता । ५ A चा । ६A । ७ A गम ।
Aho! Shrutgyanam