________________
१७०
मानसोल्लासः ।
अंशनिर्मूलदेशे स्यादयसो मुकुलाकृतिः ।
ईदृक्षो वा (क्षः पातिकः कुन्तः फलमात्रस्तु वाजिनि ॥ १८० ॥
पदातिकुन्तवस्कुन्तो दीर्घत्वेन विशेषतः । गजारूढेन सन्धार्यः समराङ्गणमूर्धनि ॥ ८१ ॥
भूमिकुन्तं समादाय दक्षिणेन च पाणिना । अँशनेरग्रतो हस्तमात्रेऽनुत्तानमुष्टिना ॥ ८२ ॥ वितस्तित्रितयं त्यक्त्वा वामेनोत्तानर्मुष्टिना ॥ सङ्ग्रह्य कुन्तं जाते (न) स्थानकेन चरेलघु || ८३ || चालयन्मणिबन्धेन कङ्कणावर्तमाचरेत् । स्कन्धे चावर्तयन् कुन्तं कण्ठावर्त प्रदर्शयेत् ॥ ८४ ॥ पृष्ठे च भ्रामयेत् कुन्तं पृष्ठावर्त निदर्शयेत् । कक्षायां च तथावर्त तर्जन्यां तु तदान्वेयम् ॥ ८५ ॥
यत्र यत्र प्रदेशे तु भ्रामयेत्कुन्तमुत्तमम् । तत्तन्नाम्ना तमावर्त दर्शयेत्कुन्तकोविदः ॥ ८६ ॥
फलेन दर्शयेदाशां परवेधात्मिकां नृपः । अङ्कुशेन विकर्षाशां कर्तेर्यो धारणात्मिकाम् ॥ ८७ ॥ विनेनाशा (नाशाशा) मशन्यां च दर्शयेत्कुन्तकोविदः । इति कुन्तविनोदेन रञ्जयेत समागतान् ॥ ८८ ॥ गदां लोहमयीं कुर्याद्दारुस | रमयीं तथा । घनेन निर्मितां वापि रत्नकाञ्चनभूषिताम् ॥। ८९ ।। स्थूलोदरीं च स्थूलाग्रां समदन्तीं परां शुभाम् ।
गृह्य मूलदेशे तु खङ्गवद्दृढमुष्टिना ॥ १९० ॥
भ्रामयेत्करयुग्मेन करेणैकेन वा पुनः । विचरेन्मण्डलैचित्रैः सव्यैश्चैवापसव्यकैः ॥ ९१ ॥
[ अध्यायः १.
Aद । ३ D अंशेन चा A अंशनेर । ४ D पाणि । ५ D तेछा स्था A तेस्था
१ A अं । २ ६ A ष । ७ D प्रद । ८ F बूर्त । ९Dत्व । १० A र्तव्या । ११ D वन् । १२ D शु । १३ D तापसं । १४ A गृह मूल । १५ D ले चि ।
Aho! Shrutgyanam