________________
१६९
विंशतिः४]
मानसोल्लासः। सन्धतः सायकस्त्वेको द्वितीयः सम्मुखः स्थितः। द्वावेतावेकमोक्षेण पुरः पश्चाच्च गच्छतः ॥ ६८ ॥ पूर्वापरस्थितं लक्ष्यं प्रविध्यन्नवनीपतिः । मालाविद्याधरं चित्रं दर्शयेच्चित्रवेष्टितम् ॥६९ ॥ चतुर्भिरधिकाशीतिश्चित्राणामवनीभुजा । इत्थं प्रदर्शनीया स्याँदोपश्चाशच तु(दु)करा ॥ १७० ।। दृढलक्ष्ये तथा दूरे लाघवे चित्रकर्मणि । एवं लक्षणसंयुक्तां धनुर्विद्यां प्रदर्शयेत् ॥ ७१ ॥ ततोऽष्टारं समादाय चक्रं पर्डरमेव वा । मुष्टिभिः सिंहकर्णाद्यैर्लक्ष्यं हन्यान्महीपतिः ॥ ७२ ॥ ईषत्कुञ्चिततर्जन्या भ्रामयेद्वामदक्षिणम् । उत्क्षिप्योत्क्षिप्य वेगेन पञ्च सप्त प्रधारयेत् ॥ ७३ ॥ एवं प्रदर्शयेच्चित्रं चक्रचारविचक्षणः । ततः कुन्तं समादाय तदुत्कर्ष प्रदर्शयेत् ॥ ७४ ॥ सप्तारनिर्भवेद्भूमौ षडरत्निस्तु वाजिनि । वारणे च नवारत्निः कुन्तदण्डास्त्रयः स्मृताः ॥ ७५॥ त्रिशूली जर्जरो जीर्णो व्रणकोशसमन्वितः। स्थूलग्रन्थिः कृशग्रन्थिकूरपर्वभिरायतः ॥ ७६ ॥ एवंविधेन दण्डेन युक्तं कुन्तं विवर्जयेत् । सदोषं विघ्नकारित्वात्कुन्तकर्मणि निन्दितम् ॥ ७७ ॥ निष्कोशः सरणः शुद्धः पकवेणुः स(सु)भूमिजः । कुन्ते प्रशस्यते दण्डः सर्वकार्यस्य साधकः ॥ ७८ ॥ फलमग्रे भवेदेकविंशत्यङ्गुलमानतः । अङ्कुशेन फैलस्याधो युक्तः पृष्ठे च कर्तरी ॥ ७९ ॥
१D न्धि Fन्धे । २ A क्षोण । ३ A दर्शनीया। ४ D स्युः। ५ F द्वि । ६ A ण्ड । ७ F omits these two lines I C A FUISF omits these two lines 1 9. D 799AE.
Aho! Shrutgyanam