________________
१६८
मानसोल्लासः।
[ अध्यायः१
AAAAN
चतस्रः सम्पदस्त्वेता युद्धे शत्रुनिबर्हणे । मृगयायां विनोदेन सोपयोगा महीपतेः॥ ५६ ॥ चित्रं कुतुहलकरं प्रेक्षकाणां मनोहरम् । दर्शयेत्तदपि प्रौढ्या विनोदाय महीपतिः ॥ ५७ ।। स्तम्भस्योपरिविन्यस्तचक्रयन्त्रे सुकीलितम् ।। वायुप्रेरितपत्रैस्तु भ्राम्यमाणं द्रुतं झैषम् ॥ ५८ ।। पात्रमध्ये स्थिते तोये वीक्ष्य विध्यन्विलोचने । प्रत्यालीढस्थितो राजा राधावेधं प्रदर्शयेत् ॥ ५९॥" खर्जूरीसदृशाकारं कृत्वा दारुमयं तरुम् । नाराचैः शतशो विध्येत्स्थाने कण्टकपत्रयोः ॥ १६० ॥ पंत्राणा(णि)कण्टकांश्चैव सायकैरेव कल्पयेत् । खर्जूरीवेधनं चित्रं प्रेयसीनां प्रदर्शयेत् ॥ ६१ ॥ वृषलं सम्मुख कृत्वा पत्रं वक्षसि विन्यसेत् । तदेव तिर्यग् मोक्षेण बाणपुवेन धारयेत् ॥ ६२ ॥ पत्रच्छेदमिदं चित्रं चित्तभ्रान्तिकरं नृणाम् । रसं विस्मयमातन्वन्दर्शयेद्वेधमुत्तमम् ॥ ६३ ॥ एफसन्धानयुक्ताभ्यां बाणाभ्यां लक्ष्ययुग्मकम् । विध्यन्मदर्शयेच्चित्रं यमलार्जुनसंज्ञकम् ॥ ६४ ॥
अत ऊर्ध्वं स्थितं लक्ष्यमेकमोक्षेणे बाणयोः । विकटार्जुन के(क)चित्रं नृपो" विध्यन् विनोदयेत् ॥ ६५ ॥ अर्धचन्द्राकृतीं कृत्वा तर्जन्यङ्गुष्ठको ततः । तृणकाण्डं तयोरग्रे धारित चतुरङ्कुलम् ॥ ६६ ॥ अमुल्यनुपपातेन तद्विध्यन्पृथिवीपतिः । अर्धचन्द्राह्वयं चित्रं दर्शयेच्च सभासदाम् ।। ६७ ॥
११
१A । २ A स्वे । ३ A त्र। ४ D कौतू । ५ D हस्ते। ६ A 5। ७ A मध्ये वीक्ष्यन्वि । ८D य । ९ D८ । १. D स । ११ D विविधं । १२ A क्षण । १३ A र्ज। १४ A पे । १५ A ण्डे । 1. D प्र। १७ A द्या।
Aho ! Shrutgyanam