________________
विंशतिः ४]
मानसोल्लासः । षोडशाङ्गुलविस्तीर्णमुत्सेधे सर्षपास्त्रयः ।
आयसं दृढमेतत्तु विध्येत्सामजसन्निभम् ॥ ४४ ॥ दृढान्येतानि बधीयात्स्तम्भशाखाद्वयान्तरे । त्रिवारममितेनैव नरवक्षःसमुन्नतौ ॥ ४५ ॥ भित्वा तानि विनिर्गत्य निर्भिद्याग्रेण भूतलम् । यथावत्तिष्ठते बाणस्तथाविध्येत्क्रियायुतः॥ ४६ ॥ अङ्गुष्ठभागपार्थे तु तर्जन्याँ सङ्गन्ते शरे । चापमुष्टौ समे पुङ्ख समसन्धानमुच्यते ॥ ४७॥ समसन्धों रथे ज्यायामधःसन्धानकं भवेत् । तस्मादेवर्ध्वितः सन्धादूर्ध्वसन्धानमिष्यते ॥ ४८ ॥ ऊर्ध्वदूरस्थिते लक्ष्ये नीचसन्धानसङ्गतिः । नीचलक्ष्ये तथा चोर्ध्व समलक्ष्ये समं भवेत् ॥ ४९ ॥ षोडशाङ्गुलवृत्तं तु स्थूलं लक्ष्यमुदाहृतम् । अङ्गुलद्वितयं सूक्ष्मं पञ्चगुञ्जीशिरोरुहम् ।। १५० ॥ शब्देनानुमित लक्ष्यं परापरमुदाहृतम् । चलं पञ्चविधं लक्ष्यं दर्शयेत्तस्य वेधने ( नम् ) ।। ५१ ।। तिर्यग्धावंस्तथा गच्छन्भ्राम्यश्चैव तथोत्पतन् । आकाशे भूतले तोये तेषां स्थानमुदाहृतम् ॥ ५२ ॥ उत्तमं द्विशतं प्रोक्तं शतं सार्ध तु मध्यमम् । विशं शतं कनिष्ठं स्याइरे धन्वन्तरे क्षितौ ।। ५३ ।। धर्षयेदुत्तमं दूरं चतुर्भिः सायकैः शनैः । समपत्रैः स्थूलसूक्ष्मैः निःपत्रैश्चैव नागरैः ॥ ५४ ।। पाते त्वेकं करे त्वेकं गगने पञ्चसायकान् । दर्शयेल्लाघवन्त्वेवं विध्यल्लक्ष्यं महीपतिः ॥ ५५ ॥
HD वेध्ये । २ D तेन। ३ Aव । ४ D न्यां । ५ D में । ६ Dन्धौ। ७ F द्याव्या । ८ A वोदू । SA स्थ । १०A आंशिरोसहां। ११A है। १२ ते। १३A व। १४Dवा। १५ पत्रैश्चैव च। १ADI
Aho! Shrutgyanam