SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ मानसोल्लासः। [ अध्यायः१ एवं सर्वदृढानां हि गजवाजिनृणां क्रमः । कथितः सोमभूपेन जामदग्न्यमतानुगः ॥ ३२ ॥ षडिशदङ्गुला भस्त्रां छागमांसेन पूरयेत् । एतन्मांसं दृढ़ विध्यद्गजकायप्रमाणकम् ॥ ३३ ॥ गजरा(जाजा)श्वखुराघातैः समन्तात्परिशोषितः(तम्)। दृढमश्वखुरं नाम मध्ये मातङ्गन्मान(ज)कम् ॥ ३४ ॥ विषाणं सप्तवर्षस्य महिषस्य प्रगृह्यं च । मूलाग्रवर्जितं मध्ये द्विपकायसमं दृढम् ॥ ३५॥ सूत्रं पञ्चाङ्गुलोत्सेधं तिर्यगामा(या)मकल्पितम् । निबिडं चर्मणा बद्धं विध्येत्करिसमं दृढम् ॥ ३६ ॥ कर्मष्ठकपालं तु हस्तविस्तारवर्तुलम । विध्येदस्थि दृढं नाम कुञ्जराङ्गप्रमाणकम् ॥ ३७॥ षडिंशदङ्गुलं स्थौल्यावाल्कजङ्घन(जाङ्गल) पिण्डिंतम् । रज्जुभिर्वेष्टितं विध्येदिभगात्रंसमं दृढम् ॥ ३८ ॥ अङ्गुलं दारुसारं तु षोडशाङ्गुलविस्तृतम् । इदं दारु दृढं विध्येदन्तिदेहसमं नृपः ॥ ३९ ॥ भ्रमत्कुलालचक्रस्थं मृदः पिण्डं नवाङ्गलम् । दृढं प्रवाह(विहि)तं विध्येत्समं नागेन चर्मणा ॥ १४० ॥ कार्यसनिर्मितं पुञ्जमुत्सेधेन षडङ्गुलम् । चर्मनद्धं दृढं विध्येसिन्धुरागसमं नृपः ॥४१॥ करीषधान्यपांसनां पृथपर्ण तु कर्कट(श)म् । अष्टाङ्गुलं दृढं विध्येद्वारणाङ्गसमं नृपः ॥ ४२ ॥ यङ्गुलां मांसवर्णां च षोडशाङ्गुलविस्तृताम् । शिलां विध्येदृढं सम्यक् स्तम्बेरमसमं नृपः॥४३॥ १ F निं । २ A जराजाश्वखुरोवातैः । ३ D शे। ४ A णां। ५ D ह्यते। ६ D गगमक । ७D दाल्व । ८ A ण्ड ! ९ F A त्रं । १० D धू A डू। Aho ! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy