________________
विंशतिः३j
मानसोल्लासः। कृशाङ्गुली स्वल्पनखी' स्वेदेपि च ससौरभा। गीतनृत्तकलादक्षा सम्भोगे चित्तहारिणी ॥ ७९ ॥ मौग्ध्यवैदग्ध्यसंयुक्ता सानुरागाऽतिकाङ्किणी । विलासविभ्रमोपेता विचित्रवसना(न)प्रिया ॥ १७८० ॥ सनर्महासचतुरा साऽप्सरोंशकसम्भवा । सहकारफलाकारवदना चारुहासिनी ॥ ८१॥ समभालतला सुभ्रूस्तीक्ष्णापाङ्गविलोकिनी । स्वच्छगण्डस्थलच्छाया वृत्तपीनपयोधरा ॥ ८२ ॥ सकान्तिरदना रम्यरेखालङ्कृतकन्धरा । तनुपध्या पृथुश्रोणी(णि) रुजङ्घा मनोहरा ॥ ८३ ॥ माल्यमण्डनके दक्षा वृत्तज्ञा चपलाशया । उद्वेजयति भर्तारं कासन्ती द्रविणं बहु ॥ ८४ ।। पुनः सङ्घट्टते विद्याधरांशकसमुद्भवा । दीर्घानना निम्नघोणा लघुलोचनभामिनी ॥ ८५ ॥ त्रिकोणभालफलका घननीलशिरोरुहा । जङ्घाकाण्डे प्रकोष्टे च सूक्ष्मरोमसमन्विता ॥ ८६ ॥ विचूचुककुचाभोगा मध्यभागे कृशा भृशम् । . विशालजघनोपेता सुप्रमाणा लसन्नखी ॥ ८७ ॥ निगृहयित्री गुह्यानि गुह्यकांशसमुद्भवा । नात्यायतमुखी दीर्घलोचना समनासिका ॥ ८८ ॥ तनुदन्तच्छदा दीर्वाधिंका पृथुलहस्तिनी । विशालवक्षाः सुग्रीवा भूषणेषु रता सदा ॥ ८९ ॥ मृदुबाहुः श्लक्ष्णकक्षा करकाठिन्यसंयुता । तनुमध्या शुभतनुर्विशालजघनस्थला ॥ १७९० ॥
१D खा। २ F भि। ३ A र । ४ D त। ५ A पु D रूरू। ६ A गो। 6D धिषका पृथुलस्तनी ।
D यन्ती।
Aho ! Shrutgyanam