________________
१५०
[अध्यायः २०
मानसोल्लासः। दुर्गन्धा दुःस्वभावा च तस्माद्भोगे विवर्जिते । सुरूपा कान्तिसंयुक्ताचपला भयवर्जिता ॥ ६७ ॥ अस्वेदा च सुगन्धिश्च चिरकालनिमेषिणी । स्थिरस्तनी मिताहारा वलीपलितवर्जिता ॥ ६८ ॥ श्वेतभूषाम्बरप्रीता गौरश्यामोत्तमप्रिया । प्रसन्ना त्यागशीला च शौचाचारसमन्विता ॥ ६९ ॥ ईपल्ल(दृग्ल)क्षणसम्पन्ना योषिदेवांशकोद्भवा । सुसंस्थाना सुतन्वी च तरङ्गितशिरोरुहा ॥ १७७० ॥ सहासवदनाम्भोजा पक्ष्मलाक्षी दृढस्तनी । मितास्या तनुमध्या च दर्शनीयाँ नितम्बिनी ॥ ७१ ॥ सुकुमारकराद्भिश्च सुभगा प्रियभाषिणी । कलाविद्भङ्गिचतुरा सदा साहसिके रता ॥ ७२ ॥ सदैवासत्यवचना सिद्धांशकसमुद्भवा।। सुरम्यनिम्नवदना शफरीचललोचना ॥ ७३ ॥ मध्ये क्षामा कान्तिमती सपुष्पनखरावली । नातिस्थूला न च कृशा गीतवाद्यप्रिया सदा ॥ ७४ ।। सुगन्धिकुसुमासक्ता गीतज्ञा चातिकामिनी । अव्यवस्थाचलपान्ता स्वैरिणी पटुंहासिनी ॥ ७५ ।। ईदृग् लक्षणसंयुक्ता गन्धर्वांशकसम्भवा । सम्पूर्णचन्द्रवदना निम्ननासा कृशोदरी ॥ ७६ ॥ उत्तुङ्गभाला वक्रा(क)भ्रूश्चञ्चच्चलविलोचना। तन्वी च हरितश्यामा घनवृत्तलघुस्तनी ॥ ७७ ॥ प्रमाणोत्सेधसंयुक्ता राजज्जघनमण्डला । श्लक्ष्णोरुर्वृत्तजङ्घा च निर्लोमा स्वेदवर्जिता ॥ ७८ ॥
१D चापलाभयवर्जिता । २ A धृड । ३ A य । ४ A ४ । ५ A नी ।
Aho ! Shrutgyanam