________________
विशतिः ३ ]
मानसोल्लासः ।
भ्रुवौ भातलं रम्यं वाः कृष्णाः शिरोरुहाः । सुप्रमाणं व संस्थानं लतावत्तनुविग्रहः ।। ५५ ।। गीते नृत्ते च वाद्ये च रतिः सुललिता गतिः । सुगन्धि रागसलिलं सुसूक्ष्मस्वरभाषणम् ॥ ५६ ॥ कलाकौशल सम्प्रीतिः श्यामो वर्णो मनोहरः । गौरः श्या (रश्या) मोऽथवावर्णश्चित्रभूषाम्बरस्पृहा ।। ५७ ।।
विचित्रे च रते प्रीतिश्चित्रिण्या लक्षणन्त्विदम् । अलक्तरससच्छाये शोभने पादयोस्तले ।। ५८ ।। गुल्फौ सुसन्नौज वृत्ते दीर्घे च मांसले । ईषद्वक्राकृती ऊरू गम्भीरं नाभिमण्डलम् ।। ५९ ।।
उदरं तनु वृत्तं च स्तनावायतचूचुकौ ।
उरो विशालं बाहू च वृत्तौ दीर्घौ च मांसल ।। १७६० ।।
रक्तपङ्कजसङ्काशौ कोमलौ करपल्लवौ । अङ्गुल्यः कोमला वृत्ता दीर्घा स्थूला च कन्धरा ॥ ६१ ॥
पीनौ रदच्छदौ रम्यौ दशनाः स्थूलसंहताः । तथा स्थूलायतौ कर्णौ नेत्रे नीलोत्पलप्रभे ॥ ६२ ॥
स्थूले भ्रुवौ तथा वक्रे निम्नं भालमथोन्नतम् । स्थूला दीर्घा घनाः केशा बहुरीय मृदुर्गतिः ॥ ६३ ॥
गम्भीर अधुरा वाणी चलं चित्तं मृदुस्तनुः । निद्रा बुभुक्षा सततं स्निग्धकामुककामिता ॥ ६४ ॥
सम्भोगान्ते सरक्तत्वं मांसगन्धिद्रवोऽधिकः । सुरताहवशूरत्वं नवाङ्गुलरतिस्तथा ।। ६५ ।।
इत्येतैर्लक्षणैर्युक्ता वडवाँ परिकीर्तिती । शङ्खिनी हस्तिनीशीला विशालाई भगांऽधमा ॥ ६६ ॥
१४९५
१ D समुन्न । २ D ललाटं तद् । ३ Aता । ४ A ग्रन्थि । ५ A वाः । ६ A. ताः । ७ A. श. । • A F विष्टीपा भगा Df... द्विभगा । ९ CF गो ।
Aho! Shrutgyanam