________________
विंशतिः३]
मानसोल्लासः। स्थगयेसम्प(म्पु)टेनाथ रन्धेधूपो विनिःसरेत् । करण्डं दण्डसंयुक्तं पाणिना परिवर्तयेत् ॥ ७ ॥ आत्मनोऽपि मुखं क्वापि प्रेयसीवदनेषु वा । करण्डकमदण्डं तु धूपवर्तिसमन्वितम् ॥ ८॥ अंशुकान्तं क्षिपेद्वाऽपि खोम्पके वापि निक्षिपेत् । धृर्पयेत शुभां शय्यां वसनेनावगुण्ठिताम् ॥ ९॥ . . पञ्जसैधौंतवासांसि पिण्डकैचूर्णकैरपि । गृहं च पिहितद्वारं निरोधितगवाक्षकम् ॥ १७१० ॥ धूपयेद्बहलैधूपैः पिण्डधूमसमुद्भवैः । विलासचतुराणां हि नृपाणां च विनोदिनाम् ॥ ११ ॥ धृपभोगोऽयमाख्यातः सोमेश्वरमहीभुजा । भूलोकमल्लदेवेन धूपभोगोऽयमीरितः ॥ १२ ॥
इति धूपभोगः ॥ १९॥ योषितामुपभोगोऽयं कथ्यते स्मरदीपनः । अचापल्यं भयं लज्जा दाक्षिण्यमनुकूलता ॥ १३ ॥ मधुरस्वरता दाक्ष्यं पटुत्वं प्रियवादिता । मानः शुचित्वं दाक्षिण्यं गुरुशुश्रूषणे रतिः ॥ १४ ॥ धर्मज्ञतार्जवं सत्यं कौशलं सर्वकर्मसु । हृष्टता स्मितहासित्वं पतिदोषनिगृहनम् ॥ १५ ॥ व्ययवैमुख्यमित्येते योषितां प्रवरा गुणाः । स्त्रीणां रूपवती श्रेष्ठा सुरूपा( सयौवना ॥ १६ ॥ संयौवनासु गीतज्ञा गीतज्ञास्वपि नर्तकी । उत्तरोत्तरमेतासु श्रेष्ठ्यं पूर्वगुणैः सह ॥ १७ ॥ एतैः सर्वगुणैर्युक्ता दुर्लभा रमणी भुवि । मृगी च पद्मिनी चैव चित्रिणी वडवा तथा ॥१८॥
१ A F स्था। २A जम्पने। ३ A अ। ४ Fपाय। ५ मा ६Dच। CDFसु। १९
Aho! Shrutgyanam