________________
विंशतिः३॥
मानसोल्लासः।
अन्यैः सुगन्धिभिः पुष्पैरपन्तैः कृता तु या । शय्या कुसुमजा नाम कामकेलिसुखावहा ॥ ८२ ॥ चर्मजा वारिणा पूर्णा तोयशय्या प्रकीर्तिता । द्विपदन्तकृतैः पादैश्चतुर्भिरुपशोभितैः ॥ ८३ ॥ दन्ताजिना(ना)म मञ्चोऽयम् सर्वदन्तमयः शुभः । ताम्रारकूटघटितश्चरणैस्तन्मयैः शुभैः ॥ ८४ ॥ लाहेमञ्चकनामाऽयं सुदृढः परिकीर्तितः । चारुचामीकरानद्धो रचनापरिरञ्जितः ॥ ८५॥ अष्टापदमयः प्रोक्तो मञ्चकोऽयं चतुष्पदः । यन्त्रिपत्रकृतै दैरानन्दं तनुते नदन् ॥ ८६ ॥ वर(स्व)मञ्चः समाख्यातो रतिकेलिषु कामुकैः । उपवेशनमात्रेण गच्छत्यूर्ध्वमधश्च यः ॥ ८७ ॥ दृढाजिश्चारुरूपश्च लव(वल)मञ्चः प्रकीर्तितः । त्वभित्रस्य बाह्याभिस्तनुभिर्गुम्फितो धनम् ॥ ८८ ॥ कुटिलैश्चरणैर्युक्तो वेत्रमञ्चः प्रकीर्तितः । कासगुणकप्ताभिः पट्टिकाभिः सुगुम्फितः ॥ ८९ ॥ दीर्घाभिश्चित्रवर्णाभिर्मश्चोऽयं पट्टिकाभिधः । श्रीखण्डदारुघटितः कनत्काञ्चनभूषितः ॥ १६९० ॥ खचितो दिव्यरत्नैश्च मत्तवारणशोभितः । सौवर्णशृङ्खलाबद्धो लम्बमानः सदोलनः ॥ ९१ ।। किञ्जल्कशय्यामा(य्यया)युक्तो दोलामञ्चः सुखप्रदः । वसन्ते हंसजा शय्या क्रीडायां पुष्पपत्रजा ॥ ९२ ।। निदाघे तुलजा शय्या मध्याह्न तोयजा शुभा। हेमन्ते शिशिरे चैव वर्षासु च विचक्षणः ।। ९३ ॥ भजेत शय्यां कार्पासीं नृपः शीतापनुत्तये । शरत्काले तु कैञ्जल्की दोलामञ्चसमाश्रिताम् ॥ ९४ ॥
१Dता। २ A च । ३ F यन्त्र D यन्त्रयन्त्रि । ४ D रच F चर।
Aho ! Shrutgyanam