SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ विंशतिः ३ ] मानसोल्लासः । वेणुकस्रभिरन्योन्यं गुम्फितो वर्तुलाकृतिः । पिनद्धचर्मणा वाह्ये प्लवकोऽयं जलेचरः ॥ ५८ ॥ एतैर्यानैर्यथायोग्यं याति यः पृथिवीपतिः । यानोपभोगः कथितः सोमेश्वरमहीभुजा || ५९ ॥ इतियानोपभोगः ॥ १६ ॥ इदानीं छत्रभोगोऽयं कथ्यते राजवल्लभः । पट्टनिबद्धेन दण्डेनोपरि धारितम् || १६६० ।। नानावर्णसुसूत्राभिः कम्राभिः कृतपञ्जरम् । श्वेतवस्त्रेण सञ्छन्नं मुक्तादामसुसुसकम् ॥ ६१ ॥ नील विद्रुममुक्ताभं लम्बनैः परिशोभितम् । चञ्चत्काञ्चनजांतेन कलशेन विराजितम् ॥ ६२ ॥ पुण्डरीकसितच्छत्रं राजयोग्यमनुत्तमम् । नीलपट्टनिबद्धानि रौप्यदण्डधृतानि च ॥ ६३ ॥ नानावर्णविचित्राणि झल्लरीभिर्युतानि च । मेघडम्बरनामानि चामरोत्तंसितानि च ॥ ६४ ॥ छत्राणि विलसत्कान्तिमणिभिर्जडितानि च । सैसौवर्णकलापस्थं (स्थ) चन्द्रकैः परिकल्पितम् ॥ ६५॥ सुवर्णदन्ती (न्ति) दण्डेन रत्नेन परिमण्डितम् । कलशेन तदुत्थेन शुभ्रेण परिशोभितम् ॥ ६६ ॥ पिच्छछत्रमिदं प्राहु: सॉगिरीति विचक्षणाः । रोहितैः पिञ्जरैचित्रैर्नानावर्णैर्नृपोत्तमः ॥ ६७ ॥ आतपत्रैरसंख्यातैः वरियन्नातपं चरेत् । एतेषां शीतलां छायामाश्रितः पृथिवीपतिः ।। ६८ ॥ सुखेन मोदते यत्तु छत्रभोगः प्रकीर्तितः । छत्रभोगोऽयमुद्दिष्टः सोमेश्वरमहीभुजा || ६९ ॥ १४१ १ Dषा । २F मण्डितानि वराणि च । ३ A सौवर्णक । ४ A दंतप्रकल्पेन दंतिदण्डेन परिकल्पितं । ५ D सिग । ६ A वरि । Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy