________________
१४०
मानसोल्लासः।
[अध्यायः १६
जवने त्वरितं नागं याने शंसन्ति कोविदाः । सौवर्णस्तम्भयुक्तेन मुक्तादामविराजिना ॥ ४५ ॥ काञ्चनैः कलशैः श्लक्ष्णैरुपरिष्टाद्विराजिना । मयूरपिच्छपुच्छैा प्रच्छन्नेन सुशोभिना ॥ ४६ ॥ चौरुचामीकरच्छन्नपुष्पकेणोपशोभिता । करिणी लघुसञ्चारा वेशदेश(शे) त्वकम्पना ॥ ४७ ॥ उपवेशे स्थिरा धीरा गमने च जवाधिका। गतौ तु सलिला रम्या सर्वतस्त्रासवर्जिता ॥ ४८ ॥ चारुचामीकरच्छन्नपुष्पकेणोपशोभिता । अस्खलन्ती पदन्यासे यानेष्वश्वतरी वरा ॥ ४९ ॥ मयूरगतिको बा(वा)ह्यस्तित्तिरीगतिसन्निभः । मरालगमनो वाऽपि चतुष्कगतिशोभितः॥ १६५० ॥ गच्छतः कम्पतेऽश्वस्य पुच्छंग्रीवं विशेषतः। त्वरिता गतिरित्यर्थं मायूरीति निगद्यते ॥५१॥ शीघ्र पदानि कुरुते यत्र पुच्छं न कम्पते । सा गतिस्तैत्तिरी ज्ञेया हयवाहनकोविदैः॥ ५२ ॥ पार्थाभ्यां दोलनं यत्र हंसवद्गच्छतो हरेः। शिरोऽपि म(विधु)नुते तद्वन्मरालीगतिरीदृशी ॥ ५३ ॥ पादैश्चतुर्भिः सञ्चारे ललितं यत्र गच्छति । चतुष्कगतिराख्याताऽनुत्तमा सुखदायिनी ॥ ५४ ॥ अश्वैश्चतुर्भिाभ्यां वा युक्तश्चक्रयुगान्वितः । मत्तवारणकैर्भव्यश्चित्रितैः परिशोभितः ॥ ५५ ॥ नानावर्णपताकाभिाजितः सुदृढाक्षकः । उत्तमः स्यन्दनो याने नृपाणामेव निर्मितः॥ ५६ ॥ शाकजैः फलकैश्छन्ना यों च वल्कलवेष्टिता । आयता सुदृढा नीरे सा नौर्याने प्रशस्यते ॥ ५७ ॥
१ This line is repeated below in 491 २D देश।३D धारा। ४ Dभनः। ५)च्छं। वा । ७Dर। ८Dज। ९ Aउ। १० A तम् । ११D च्छि। १२ A यो। १३ Aर।
६
Aho ! Shrutgyanam