________________
विंशतिः३]
मानसोल्लासः।
१३९
पादसंवाहदक्षाणां कामिनीनां मनोहरैः। अशोकपल्लवप्रख्यैर्हस्तैरत्यन्तपेशलैः ॥ ३३ ॥ वसन्ते सर्पिषा दना शीतेन पयसाऽपि वा । निदाघे नवनीतेन काञ्जिकेनै सफेनकैः ॥ ३४ ॥ वर्षासु वसयाभ्यङ्यौ पादौ तक्रेण वा पुनः । शतधौतेन शरदि सर्पिषा चन्दनोदकैः ॥ ३५॥ हेमन्ते शिशिरे चैव तैलेनाभ्यञ्जयेत्पदे । पश्चात्प्रक्षालयेत्पादौ सुखस्पर्शेन पाय(थ)सा ॥ ३६ ।। मसरयवपिष्टैश्च हरिद्राचूर्णमिश्रितैः। उद्धृ()त्य च पुनः पादौ क्षालयेत्सुखवारिणा ॥ ३७॥ एवं यः कारयेद्राजा भोजनादूर्ध्वमन्वहम् । पादाभ्यङ्गोपभोगोऽयं वर्णितः सोमभूभुजा ।। ३८ ॥
इति पादाम्यङ्गोपभोगः ॥ १५ ॥ इदानीं सुखदोऽत्यर्थं यानभोगो निरूप्यते । दोला सुखासनं हस्ती करिण्यश्वतरी हयः ॥ ३९ ॥ रथो नौः प्लवर्कश्चेति नवधा यानमुच्यते । सुवक्रया वेणुजया हेमरत्ननिबद्धया ॥ १६४० ॥ स्वर्णशृङ्खलवत्पट्टन्यस्तशय्योपधानया । दिव्यपट्टप्रच्छदया वीधद्वयबा(वा)ह्यया ॥ ४१ ॥ एकदण्डिकया यानं दोलायानं तदुच्यते । दन्दिदन्तविनिर्माणं हेमरत्नविभूषितम् ॥ ४२ ॥ शार्दूलचर्मसन्नद्धं दण्डिकाद्वयधारि च । चतुभिर्विविधैर्वा(वविधैर्वा)ह्यं हंसशय्यासमन्वितम् ।। ४३ ॥ पृथ्व्यांधारेण संयुक्तं सुखासनमिति स्मृतम् । समग्रं विपुलस्कन्धं मृदुसञ्चारसंयुतम् ॥ ४४॥
१C D F स्तलैरभ्यञ्जयेच्छनैः। २ A सा। ३ C F काजिकैः परिकीर्तितः D काजिकैः कोल । ४ A गौ । ५ D निणी । ६ A का। ७ D विवि । ८ A वी।
Aho! Shrutgyanam