________________
११६
मानसोल्लासः ।
मांसमम्लेन भुञ्जीत दुग्धं वो शर्करायुतम् । लवणेन तथा चाम्लं क्षारं कटुकषायकैः ॥ ९८ ॥
वसन्ते कटु चाश्रीयाद्रीष्मे मधुरशीतलम् । वर्षासु च तथा क्षारं मधुरं शरदि स्मृतम् ॥ ९९ ॥
हेमन्ते स्निग्धमुष्णं च शिशिरेऽप्युष्णमम्लकम् । एवं भुञ्जीत यद्भूपो अन्नभोगः स कथ्यते ।। १६०० ॥ अन्नभोगः समाख्यातः सोमेश्वरमहीभुजा ।
॥ इत्यन्नभोगः ॥ १३ ॥ हृद्यः पानीयभोगोऽयमिदानीमभिधीयते ॥ १ ॥ मध्ये मध्ये पिबेद्वारि स्तोकं स्तोकं सुशीतलम् । भोजनस्य च रुच्यर्थं पाकार्थमशनस्य च ॥ २ ॥
पिपासायां च जातायां स्वेच्छया पीयते जलम् । नियमो नात्र कालस्य तृषावेगो न धार्यते ॥ ३ ॥
असवः प्राणिनामापो जीवितं यत्तदाश्रितम् । मूच्छिता अपि जीवन्ति यतस्तोयेन सिञ्चिताः ॥ ४ ॥ दिव्य (व्या)न्तरिक्षं नादेयं नैर्झरं सारसं जलम् । भौमं चौण्डं च ताड कमौद्भिदं नवमं स्मृतम् ॥ ५ ॥ स्वात्यां पयोदनिर्मुक्तं सूर्यरश्मिविमिश्रितम् । सर्वदोषापहं स्वादु दिव्यमित्युच्यते जलम् ।। ६ ।। प्रावृड्जलदनिर्मुक्तमव्यक्तं स्वादुर्लक्षणम् । वारि स्फटिकसङ्काशमान्तरिक्षमिति स्मृतम् ॥ ७ ॥
नद्यां शैलप्रसूतायामिन्द्रनीलसमप्रभम् । प्रशस्त भूमिभागस्थं नीरं नादेयमुच्यते ॥ ८ ॥
१ DF शर्करया सह । २ D ढं F ढं । ३ A ढाक F डाग | ४ A तज्जलम् ।
Aho! Shrutgyanam
[ अध्यायः १४