________________
विंशतिः ३]
मानसोल्लासः ।
विशाले काञ्चने पात्रे स्वर्णकञ्च्चोले संयुते । लोहगङ्गालकैर्युक्ते रुक्मपिंगालकैट्टेते ॥ ८६ ॥
भैर्मशुक्तिसमोपेते कनकस्थालसँयुते । जलप्रक्षालिते सम्यक् सितवप्रमार्जिते ॥ ८७ ॥ वर्धयेत्पूर्वकथितमन्नपकान्नपानकम् । ऊरुनाभिप्रदेशान्तं सञ्छाद्य सितवाससा ॥ ८८ ॥ गद्दिकायां समासीनः पूर्वाशासम्मुखो नृपः । अनं मुद्द्रसमोपेतं भुञ्जीतोष्णं घृतप्लुतम् ॥ ८९ ॥ प्राचीमुखस्तु भुञ्जान आयुश्च लभते बहु । यशश्च लभतेऽत्यर्थमश्नन्दक्षिणदिङ्मुखः || १५९० ।। श्रियं तु लभते पुष्टां भुञ्जानः पश्चिमाननः । सत्यवाक्यफलं प्राप्नोत्यश्नन् धनददिङ्मुखः ॥ ९१ ॥ श्लक्ष्णमांससमायुक्तं विदलैर्वा विमिश्रितम् । लेहे विविधैर्हयैर्लेपितं वा तथोदनम् ॥ ९२ ॥
मांसप्रकारकैर्मृष्टरम्लमिश्रैव च पल्लवैः । नानाविधैस्तथा शाकैः फलपत्रसमुद्भवैः ।। ९३ ।।
वटकैः पर्पेटैर्हृद्यैः खारखण्डोर्पखण्डकैः । यथारुचि यथासात्म्यं सुखं भुञ्जीत भूपतिः ॥ ९४ ॥
पक्कान्नं पायसं मध्ये शर्कराघृतमिश्रितम् । ततः फलानि भुञ्जीत मधुराम्लरसानि च ॥ ९५ ॥
पिबेच्च पानकं हृद्यं लिह्याच्छिखरिणीमपि । चूषेत मज्जिकां पचादधि चांद्यात्ततो घनम् ।। ९६ ।।
ततस्तक्रा*मश्रीयात् सैन्धवेन च संयुतम् ।
क्षीरं वाऽपि पिवेत्पश्चात् पिबेद्वा काञ्जिकं वैरम् ॥ ९७ ॥
१३५
ACFम्बो । २ भुम । ३ A सङ्गते । ४ D ब्रेण । ५A Fम्ल । ६ A न्न | D प्रले हैर्वि । ८ A ण्डेप । ९ A वा । १० A न्त । ११ A वरी ।
Aho! Shrutgyanam