________________
१३७
विंशतिः३]
मानसोल्लासः। वालुकासु करैर्गतं कृत्वा यत्प्राप्यते जलम् । उत्क्षेपणेन नैर्मल्यं याति निष्प(ष्य)न्दजं हि तत् ॥९॥ नद्याः शैलवराद्वाऽपि मृतमेकत्र संस्थितम् । कुमुदाम्भोजसञ्छन्नं तोयं सारसमुच्यते ॥ १६१० ॥ वापीकूपसमुत्पन्नं नीलोत्पलदलप्रभम् । विमलं मधुरास्वादं भौममम्भोऽभिधीयते ॥ ११ ॥ स्वयं दीर्घशिलाश्वभ्रष्वतसीपुष्पसन्निभम् । निर्मलं मधुरं पथ्यं सलिलं चौण्डमुच्यते ॥ १२ ॥ पालिबन्धेन संरुद्ध(द्धः)कुल्यापूरागतो रसः । प्रतिवर्ष वना(नवा)म्भोभिमि(मि)श्रस्ताडाक उच्यते ॥ १३ ॥ निर्मलं लघु पानीयमुत्तानं स्वादु शीतलम् ।
शैलसानुसमुद्भेदान्नैझरं परिकीर्तितम् ॥ १४ ॥ दशमं केचिदिच्छन्ति वार्ड्स जीवनमुत्तमम् । नारिकेलसमुद्भूतं स्वादु वृष्यं मनोहरम् ॥ १५॥ हंसोदकं तथा चान्यत् क्रियासंस्कारसंस्कृतम् । दिवा सूर्याशुसन्तप्तं रात्रौ चन्द्रांशुशीतलम् ॥ १६ ॥ सकर्दमं सशैवालं पल्वलोत्थं सपल्लवम् । वर्जयेदूपरोद्भूतं गन्धवर्णैश्च दूषितम् ॥ १७ ॥ अशोकपल्लवप्रख्यं शुद्धस्फटिकसन्निभम् । नीलोत्पलदलश्यामं कषायमधुरं वरम् ॥ १८ ॥ कणामुस्तकसंयुक्तमेलोशीरकचन्दनैः । मंदित मृत्तिकापिण्डं खदिराङ्गारपाचितम् ॥ १९ ।। निक्षिपेन्निर्मले तोये सर्वदोषहरे शुभे ।
कथितः पिण्डवासोऽयं सलिलेषु विचक्षणैः॥ १६२० ॥ १ A क्षे। २ A ष्क । ३ D भैर । ४ C F ढ। ५ A प्रतिबन्धेन यत्तोयं तत्ताडागं समुच्यते । ६ D च्यते । ७ C क्षं। ८D मृदि ।
Aho ! Shrutgyanam