________________
विंशतिः३]
मानसोल्लासः।
विपच्य तप्ततैले तान्येलामरिचकादिभिः । विकीर्य सैन्धवेनापि हिङ्गुना परिधूपयेत् ॥ ३६ ॥ कच्छपान् वह्निना भृष्ट्वा पादांश्छल्कांश्च मोचयेत् । शिरश्चैव पृथक्कृत्वा पक्करम्भाफलोपमान् ॥ ३७॥ अम्लकैश्च विपच्याथ तैलेनाज्येन वा पुनः । पाचयेच्च सुसिद्धांस्तान चूर्णकैरवचूर्णयेत् ॥ ३८ ॥ आणके वा पचेत्तज्ज्ञो निधूमे वा हुताशने । नन्द्यावर्ता इति ख्याता मृदुरुच्या मनाहेराः ॥ ३९ ॥ कर्कटांस्तु लघूनस्थूलान् हस्तपादवियोजितान् । रूक्षे ताम्रमये पात्रे सुतप्ते तान्वि(भ)वर्जयेत् ॥ १५४० ॥ स्फोटिते खपरे तांस्तु मृदो भाण्डे विनिक्षिपेत् । विपचेल्लवणाम्लैश्च पुनः सर्पिषि पाचयेत् ॥४१॥ जीरकं लवणं तीक्ष्णं चूर्णितं ते निक्षिपेत् । वृष्याँ बलकरा हृद्या मृष्टास्ते घृतककेटाः ॥ ४२ ॥ मूख(प)काः क्षेत्रसंभूता नदीकूलेषु संस्थिताः । स्थूलाः श्यामास्तथा पुष्टा जात्या ते मयिगाः स्मृताः॥४३॥ प्रतप्ते सलिले तांस्तु निक्षिपेत्पुच्छधारणात् । उद्धृत्य तस्मात्सलिलाद्रोमाण्युत्पाटयेत्ततः ॥ ४४ ॥ विभेद्य जठरं तेषां स्फोटयेदन्त्रकाणि तु । सम्भारसहितैरम्लैः पचेच्च लवणान्वितैः ॥ ४५ ॥ शूलपोतांस्ततः कृत्वा तानङ्गारैः प्रतापयेत् । यावरहिस्त्वचस्तेषां शोषमायान्ति तापनात् ॥४६॥ सुपक्केषु तथा तेषु मूख(प)केषु किरदनु । लवणं मरिचं शुण्ठी जीरकं च विचूर्णितम् ॥ ४७ ॥ फलशाकं पत्रशार्क कन्दशाकं च मूलकम् । पुष्पशाकं शिम्बिशाकं पक्कापकविभेदतः ॥४८॥
१ A रेव । २ A दौ । ३ D तेषु वि । ४ A पा । ५ D णः । ६ A खं ।
Aho ! Shrutgyanam