SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १३० मानसोल्लासः । निष्कृष्यान्त्रादिकं सर्वं पूर्ववत्परिपाचयेत् । यथा सूकरमेषाणां क्रियाः प्रोक्ता विपाचने ।। २३॥ सशल्कोनां च मत्स्यानां शल्कं स्फे (स्फो) ट्यं प्रयत्नतः । स्थूलाश्वेत्खण्डशः कार्या लघवश्चेत्सरूपतः ॥ २४ ॥ मत्स्यानां छेदयेत्शीर्षं पुच्छं तेषां च पक्षिणाम् । विपाट्य जठरं तस्मादैन्त्राण्यपसारयेत् ।। २५ ।। कहाँकष्ट बडिशा दग्धा खवल चाचुकैः ? | पाठीनैश्च तथैतेषां पृथक् कृत्वा शिरः पचेत् ? ।। २६ ।। मत्स्यानां घर्षणं कार्यं तैलेन लवणेन च । यावत्पच्छलतां याति मत्स्यगन्धश्च नश्यति ॥ २७ ॥ क्षालयेदुदकैः पश्चाद्धरिद्राकल्कमिश्रितैः । वस्त्रे ध्वा निपीड्यैतान् स्रावयेत्सङ्गतं जलम् || २८ ॥ क्षिपेत्पूर्वप्रसिद्धेषु प्रपवेष्वाणकेषु तान् । स्वल्पे काले गते सूदः स्थालीमुत्तार्य धूपयेत् ॥ २९ ॥ मत्स्यखण्डानि धौतानि चिञ्चाम्लेन विपाचयेत् । ततो गोधूमचूर्णं तु विकिरेत्तेषु सर्वतः ॥ १५३० ॥ तप्ततैले क्षिपेत्तानि पिङ्गान्युत्तारयेत्ततः । एलामरिचचूर्णेन सैन्धवेन च भावयेत् ॥ ३१ ॥ आण वा तथा तैले वह्नौ वा धूमवर्जिते । पूर्वोक्तविधिना मत्स्यान् यथारुचि विपाचयेत् ॥ ३२ ॥ मत्स्यांश्च खण्डशः कृत्वा चतुरङ्गुलसम्मितान् । लवणेन समायुक्तान् कुम्भेषु परिपूरयेत् ॥ ३३ ॥ खरखण्डा इति ख्याताश्चिरकालं वसन्ति ते । भोजनावसरे सुदो वह्निना परिभर्जयेत् ॥ ३४ ॥ मत्स्याण्डकोशावादाय वन्हिना परिभजयेत् । दृढीभूते (तो) ततः पश्चात् खण्डशः परिकल्पयेत् ॥ ३५ ॥ [ अध्यायः ३ १ A था । २ À ध्या । ३ A दा । ४ D कन्दं करोष्ट बिडिशाः । ५ Aठा ६CF खी । ७ D Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy