________________
विंशतिः ३ ]
मानसोल्लासः ।
विशैस्तस्य च मेषस्य जठरं पाटयेदनु । आन्तरं सर्वमुत्सार्य बध्नीयादपराङ्घ्रिकौ ॥ १५१० ॥
शिरश्च रज्वा दृढया ज्वालायां परितापयेत् । यावद्रोमाणि गच्छन्ति यावत्कृष्णत्वमेति च ॥ ११ ॥ ततः प्रक्षाल्य तोयेन शेषं क्रोडवदाचरेत् । अन्येषां श्वापदानां च शेषं मेषवदाचरेत् ॥ १२ ॥ सदस्कानि मांसानि कृत्वा दीर्घाणि कर्तनैः । हिङ्गुतोयेन संसिच्य लवणेन विलोडयेत् ॥ १३ ॥ छायायां तानि खण्डानि वास्तु (यु) ना परिशोषयेत् । एकद्वित्रिदिनान्तेषु भृष्टान्यङ्गारपुञ्जके ॥ १४ ॥ स्थूलीकृतानि यावच स्वादुरुच्यानि यन्नृणाम् । उपष (ख)ण्डकनामानि सर्वशाकोत्तमानि च ।। १५ ॥ हरिणस्य तथा खण्डान् चक्कैली परिकल्पितान् । सम्भारसहितान्प्राज्यलवणेन विमिश्रितान् ॥ १६ ॥ शोषितानपि चात्यर्थमग्निना परिभर्जितान । हृद्यान्यथा (पथ्या) सुगन्धांच कल्पयेदुपखण्डकान् ॥ १७ ॥
रुरुशम्बरसारङ्गन्छागस्य नलकं पृथु । अग्नौ भृष्ट्वा शिलाघातैः स्फोटैयित्वा प्रयत्नतः ॥ १८ ॥ मज्जानं तु ततो हृत्वा लवणाम्लेन हिङ्गुना । मरिचाजाजिचूर्णेन पचेत्स्थाल्यां विचक्षणः ॥ १९ ॥
यस्य कस्यापि मेषादेः शिरो भृष्ट्वा विभिद्य च । आददीत च मस्तिष्कं काञ्जिकेन विपाचयेत् ॥ १५२० ॥ • आणके तैलमध्ये वा यथारुचि पुनः पचेत् । चूर्णैः संयोज्य तत्पचाद्धिङधूपेन धूपयेत् ॥ २१ ॥ पक्षिणामपि सर्वेषां पिच्छानुत्सार्थ सर्वतः । चञ्चुपादं पृथक्कृत्वा पाटयित्वा ततो ( थो) दरम् || २२ ॥
१. D चित्तलस्य । २ A खातृ । ३ A बच्चा । ४ F पथा । ५ A स्फे | १७
Aho! Shrutgyanam
१२९