________________
मानसोल्लासः।
[अध्यायः ११
अङ्गारैः किंशुकाकारैर्यावत्काठिन्यमाप्नुयुः । मण्डलीयं समाख्याता राजवृक्षफलोपमा ॥ ९८ ॥ पञ्चाङ्गपट्टद्वेष्टय वर्तिबद्धोज्ज्वला वपा । अङ्गुलद्वयमानेन खण्डांस्तस्याः प्रकल्पयेत् ॥ ९९ ॥ खण्डानि कालखण्डस्य तत्प्रमाणानि चान्तरा । शूलपोतानि कृत्वा तान्यनारेषु प्रतापयेत् ॥ १५०० ॥ सैन्धवं विकिरेत्तत्र सुश्लक्ष्णं मरिचान्वितम् । वर्णशुण्ठकनामेदं वर्णितं सोमभूभुजा ॥१॥ अङ्गारेषु तथा भृष्ट्वा कालखण्डं विकृत्य च । पूगीफलप्रमाणेन खण्डान्कृत्वा विचक्षणः ॥२॥ तैलेनाभ्यज्य तान्सर्वान्मरिचाजाजिसैन्धवैः। चूर्णितैर्विकिरेत्पश्चाद्धिकुधूपेन धूपयेत् ॥ ३॥ अनेन विधिना भृष्ट्वा राजिकाकल्पलेपितम् ( तान् )। कालखण्डान्मकुर्वीत दना राजिकयाऽथवा ॥ ४ ॥ भृष्टस्य कालखण्डस्य कृत्वा चेक(क)लिकाः शुभाः। कैसरैर्मातुलिङ्गस्य सैन्धवाद्यैश्च मिश्रयेत् ॥ ५॥ समेदस्कौ द्विधा भक्तौ कृत्वा लवणमिश्रितो । आम्लकैर्भावयित्वा तौ तैलेन परिपाचयेत् ॥ ६ ॥ क्रोडदेशोद्भवं मांसमस्या सह विखण्डितम् ।। अंसकीकससंयुक्तं पार्श्वकुल्या समन्वितम् ॥ ७ ॥ मृद्भाण्डे स्थाल्य(ल)वक्त्रे तनिक्षिप्य बहलोदके । हिडना चाकेणापि सैन्धवेन च संयुतम् ॥ ८ ॥ काययेत्सुचिरं कालं यावत्तन्मार्दवं भजेत् । उत्कॉथितमिदं सूपं ख्यातं शास्त्रविशारदैः ॥ ९॥
.. A माः।२D येष्टा च । ३Cष्टा । ४ D ता: C ताम् । ५ Dत्र F च । ६ A कस । ७ D को। Dasसना A सस्त्वा । १. A त्काषित । ११D ख्यातं सपशास्त्रविशारदैः ।
Aho ! Shrutgyanam