________________
विंशतिः३]
मानसोल्लासः।
पृष्ठवंशसमुद्भूतं शुद्ध मांसं प्रगृह्यते । घनसारप्रमाणानि कृत्वा खण्डानि मूळकैः ।। ६२ ॥ विध्वा तु बहुशस्तानि बहुरन्ध्राणि कारयेत् । हिङ्वाकरसैयुक्तं सैन्धवेन च पेषयेत् ॥ ६३ ॥ शूलपोतानि कृत्वा तान्यङ्गारेषु प्रतापयेत् । घृतेन सिश्चत्पाकवा(झोवारंवारं विवर्तयेत् ॥ ६४॥ सिद्धेषु मारिचं चूर्णं विकिरेन्सैन्धवान्वितम् । नाम्ना भडित्रकं रुच्यं लघु पथ्यं मनोहरम् ॥६५॥ अनेनैव प्रकारेण जर्जरीकृर्त्य खण्डकान् । स्थाल्यामम्लेन संयोज्य पाचयद्धिङ्गुनासह ॥ ६६ ॥ आर्द्रकस्य रसेनापि धान्यकस्य रसेन च । जीरकस्य च चूर्णेन मेथ(था)कस्य च मिश्रयेत् ॥ ६७ ॥ शोषयित्वा द्रवं सर्वं घृतेन परिव(भोजयेत् । क्षिपेच्च मरिचं भुंष्टे सूदो हण्डैभडित्रके ॥ ६८॥ मेषस्य कन्धरां छित्वा स्थाल्या रक्तं विधारितम् । मर्दयेत्करशाखाभिर्निक्षिप्य लवणं मनाक् ॥ ६९ ॥ मृद्यमाने तु रुधिरे सिराजालँविनिःसृते । अपनीय तथा शुद्धं कीलालं पिहितं न्यसेत् ॥ १४७० ॥ कोडदेशात्समारभ्य कर्चिकाग्रेण पाटिताम् । त्वचं विभज्य गात्रेभ्यो हरेदाह्यान्तरास्थिताम् ॥ ७१ ॥ पूर्वोद्दिष्टप्रदेशेषु स्थितं मांसमथाहरेत् । स्नायुग्रन्थिविनिर्मुक्तं खण्डशः परिकल्पयेत् ॥ ७२ ॥ पूगीफलप्रमाणानि कृत्वा खण्डानि पूर्ववत् । संस्कुर्यात्पूर्ववच्चूर्णैरम्लैश्च परिपाचयेत् ॥ ७३ ॥
१A करपूर । २ Dपू । ३ D सिञ्चयेत्पाकं । ४ A ज्ञोबा ? । ५ A द्रव्यं । ६ A त । 4A AAन्थ । १०से। ११Dठ।
म्।
Aho ! Shrutgyanam