________________
विशतिः ।
मानसोल्लास। अर्धपाके क्षिपेदुग्धं सकं वापि यथारुचि। तेन मुञ्चेन्मलं सा तु शर्करा कथिता सती ॥ १२ ॥ निर्मलेन च वस्त्रेण गालयेत्ता मुहुर्मुहुः। मृदौ पाके द्रुता पेया मध्यमे मधुसन्निभा ॥१३॥ खरे तु कठिना भक्ष्या साधिके शर्करा भवेत् । खरपाके सुसिद्धायाः सिताया सम्पुटे ॥१४॥ नानारूपाणि कुर्वीत खण्डपाकविशारदः । शोधितायां सितायां तु क्षीरं संमिश्रयेत्समम् ॥ १५ ॥ खरपाकावधिर्यावत्तावत्तथियेत्पुनः । उत्तार्य नागरं तीक्ष्णमेलाकर्पूरकेसरैः ॥ १६ ॥ निक्षिप्य गोलकाः कार्या नाम्ना वर्षोलकास्तुते । वराहपललं स्निग्धं मृष्टं सारङ्गज पैलम् ॥ १७ ॥ हरिणस्यामिषं पथ्यं रूक्षं मांसं शशोद्भवम् ।
आविकं तरसं रुच्यं लघुक्रव्यमू(म)जोद्भचम् ॥१८॥ मत्स्यमांसं भवेदृष्यं शाकुनं लघु कीर्तितम् । रुरुसम्वरसंभूतं पुष्टं चेद्रुच्यमीरितम् ।। १९ ॥ मांसान्यन्यानि बल्यानि रसनाप्रीतिदानि च । कुशस्य व्याधियुक्तस्य जराजर्जरितस्य च ॥ १४२० ॥ शावकस्य च शुष्कस्य विषसन्दूषितस्य च। . वारिणा निहतस्यापि श्रमशोषमृतस्य च ॥ २१ ॥ क्लिन्नस्य पूतिगन्धस्य मांसानि परिवर्जयेत् । पृष्टवंशस्य पार्श्वस्थं बहिरन्तश्च संस्थितम् ।। २२ ॥ जघनस्य घनं पिण्डं पुच्छमूलसमुद्भवम् । क्रोडदेशोद्भवं चैव कक्षाभागस्य पूरकम् ॥ २३ ॥ पार्श्वयोः संस्थितं चैव कुक्षिसन्धिविलेपकम् । आस्य(अंस)पूर्वाशसंभूतं मुकुलं हृदयोद्भवम् ॥ २४ ॥
A फ।
१A | २D द्धाः स्युः। ३D त। A पञ्च । ५A टैः। ६F क। ७ A ट। ९ घुक्रव । १.Dजा। ११Dम्पू । १२Dन्धि । १४ A अंश ।
१६
Aho ! Shrutgyanam