________________
१२०
मानसोल्लासः।
[ अध्यायः १३
सुशीता धवला(क) श्लक्ष्णा एता इडेरिका वराः। तस्यैव मापिष्टस्य गोलकान्विस्तृतान्धनान् ॥ १॥ पञ्चभिः सप्तभिर्वापि छिट्टैश्च परिशोभितान् । तप्ततैले पचेद्यावल्लौहित्यं तेषु जायते ॥ २ ॥ घारिकासंज्ञया ख्याता भक्ष्येषु सुमनोहराः । निच्छिद्रा घारिका(काः)पका मथिते शर्करायुते ॥ ३ ॥ एलामरिचसंयुक्ते निक्षिप्ता वटि (ट)काभिधाः । त एव वटकाः क्षिप्ताः काश्चिके काञ्जिकाभिधाः ॥४॥ यत्र यत्र द्रवद्रव्ये तन्नाम्ना वटकास्तु ते । आरनालेन सान्द्रेण दध्ना सुमथितेन च ॥ ५॥ सैन्धवादकधान्याकजीरकं च विमिश्रयेत् । मरिचानि द्विधा कृत्वा क्षिपेत्तत्र तु पाकवित् ॥ ६ ॥ दा विघट्टयन्सर्व पद्यावद्घनीभवेत् । उत्तार्य वटकान्क्षिप्त्वा विकिरेन्मारिचं रजः ॥७॥ हिङ्गुना धूपयेत्सम्यग् वटकास्ते मनोभिधाः । दुग्धमुत्काथ्य तन्मध्ये तक्रमम्लं विनिक्षिपेत् ॥ ८॥ हित्वा तोयं घनीभूतं वस्त्रबद्धं पृथक्कृतम् । शालितण्डुलपिष्टेन मिश्रितं परिपेषितम् ॥ ९॥ नानाकारैः सुघटितं सर्पिषा परिपाचितम् । पकशकरया सिक्तमेलाचूर्णेन वासितम् ॥ १४१० ॥ क्षीरप्रकारनामेदं भक्ष्यं मृष्टं मनोहरम् । शर्करों वारिसंयुक्तां ताम्रपाने विषाचयेत् ॥ ११ ॥
A
१D लः । २ Dन्दु । ३ A स । ४ Dत्तते। ५ A लो। ६ D विनि । ७ टि। तिघहयेस्स । ९ A । १० A ना। ११ Dरयापि च ।
Aho ! Shrutgyanam