________________
मानसोल्लासः ।
दुग्धाक्तान् घृतपकांश्च सितया च विमिश्रितान् । एलामरिचचूर्णेन युक्तान्कीसारसंज्ञितान् ॥ ८७ ॥ गोलकेन समावेष्ट्य तैलेनोदुम्बरान्पचेत् । उत्क्काथ्य विदलान पिष्ट्रा चणकप्रभृतीन् शुभान् ॥ ८८ ॥ हिङ्गुसैन्धवसंयुक्तान् शर्करापरिमिश्रितान् । मरिचैलाविचूर्णेन युक्तान्गोलकवेष्टितान् ॥ ८९ ॥ किञ्चित्प्रसारिते तैले पूरिका विपचेच्छुभाः ।
3
एवं तापयां पचेदन्याः पूरिकाश्च विचक्षणः ।। १३९० ॥ हरिमन्थस्य विदलं हिजीरकमिश्रितम् । लवणेन च संयुक्तमार्द्रकेण समन्वितम् । । ९१ ॥ वेष्टयित्वा गोलकेन वेष्टिका खर्परे पचेत् । विदलं चणकस्यैवं पूर्वसम्भार संस्कृतम् ।। ९२ ।। ताप्यां तैलें (ल) विलिप्तायां घोसकान्विपचेद्बुधः । माषस्य राजमाषस्य वट्टाणस्य च धोसकान् ॥ ९३ ॥ अनेनैव प्रकारेण विपचेत्पाक तत्त्ववित् । वाणकस्य विदलं विदलं चणकस्य च ॥ ९४॥ चूर्णितं वारिणा सार्धं सर्पिषा परिभावितम् । सैन्धवेन च संयुक्तं कण्डुना परिघट्टितम् ॥ ९५ ॥ निष्पावचूर्णसंयुक्तं पेषण्यां च प्रसारितम् । कटाहे तैलसंपूर्ण कटकर्णान्प्रपाचयेत् ॥ ९६ ॥ यावद्बुद्बुद संकाशा भवन्ति कनकल्विषः । माषस्य विंदलाँन् क्लिन्नान्निस्तुषान्हस्तलोडनैः ॥ ९७ ॥ ततः सम्पेष्य पेषण्यां सम्भारेण विमिश्रितान् । स्थाल्यां विमर्द्य बहुशः स्थापयेत्तदहस्ततः ।। ९८ ।। आम्लीभूतं माषपिष्टं वैटिकासु विनिक्षिपेत् । गर्भाभिरन्याभिः पिधाय परिपाचयेत् ।। ९९ ।। अवतार्यात्र मरिचं चूर्णितं विकिरेदेनु । घृताक्ती हिडुसर्पिभ्यां जीरकेण च धूपयेत् ।। १४०० ॥
विंशतिः ३ ]
११९
१ D तास । २ F कृती D कृता । ३ A ऽपि । ४ Dव। ५ A संस्का । ६ A लं । ७A ला क्लि । ८ Aपि ।९D सतः । १० A तः ।
Aho! Shrutgyanam