________________
मानसोल्लासः।
[अध्यायः १३
तण्डुलान् कुन्दसङ्काशस्तिोयान्तर्धारितांश्चिरम् । स्थाल्यां ताम्रकृतायां वा मृज्जातायामथापि वा ॥ ५१॥ . तण्डुलत्रिगुणं तोयं निक्षिपेच्च पिधापयेत् । वाससा शशिशुभ्रेण धौतेन च घनेन च ॥ ५२ ॥ चुल्यां निधाय निधूमे वन्ही तत् काथयेजलम् । सुतप्ते बुद्बुदोपेते स्वल्पबाष्पसमन्विते ।। ५३ ॥ तण्डुलानावपेत्स्थाल्यां दा च परिघट्टयेत् । सिक्थं विमर्च वीक्षेत वारं वारं विचक्षणः ।। ५४ ॥ मृदु(द)भूते च तसिक्ते (क्थे) किञ्चिद्वा कणगर्भिते । तत्र दुग्धं घृतं वापि निक्षिप्योत्तारयेत्ततः ॥ ५५ ॥ स्थाल्यास्ये पिटकं दत्वा मण्डं तं स्रावयेद्गुणः(णी)। ईषदुद्ध()रितं मण्डमूष्मणा परिशोषयेत् ॥ ५६ ॥ एवं भक्तं सुपकं यद्राजयोग्यं तदुत्तमम् । राजमुद्रास्तथा पीता निष्या(प्पा)वाश्चणका अपि ॥ ५७ ॥ कृष्णाढक्यस्तथा माषा मसरा राजमाषकाः। सूपकर्मणि सप्तैते नियोज्याः सूपकारकैः ॥ ५८ ॥ दलिताऽदलिताश्चैते पचनीया यथारुचि । चणका राजमाषाश्च मसूरा राजमुद्काः ॥ ५९ ।। घरट्रैर्दलिताः कार्याः पाकार्थ हि विचक्षणैः । किश्चिद्दष्टास्तथाढक्यो यन्त्रावतैर्द्विधाकृताः ॥ १३६० ॥ विदली च कृताः सम्यक् शूर्पकैर्वितुषीकृताः । स्थाल्यां शीतोदकं क्षिप्त्वा विदलैः सममानतः ॥ ६१ ॥ आवपेद्विदलान्पश्चाच्चुल्यामारोपयेत्ततः ।
द्वग्निपच्यमानेऽन्तहिङ्गुतोयं विनिक्षिपेत् ॥ ६२ ॥ १ A तयं । २ A ल्याइ । ३ A क्तं च्छं । ४ D मृष्य । ५ D ख्ते । ६ D कं । ७ D मण्डमास्रावये दूमः । ८ F स्या A पो। ९ D माष । १० A टैः । ११ F लिः । १२ D ते। १३ D omits these iwalioent
Aho ! Shrutgyanam