________________
विशतिः ३]
मानसोल्लासः ।
लभन्ते च प्रजाः श्रेष्ठा रूपशीलगुणान्विताः ।
तेषां पुत्रांश्च कन्याश्च स्वाङ्कमारोप्य लालयन् ॥ ३९ ॥
निर्भरानन्दसन्दोहः पुत्रभोगमवाप्नुयात् । एवं शिशूंल्लालयित्वा शिक्षयित्वा विवाह्य च ।। १३४० ॥
तत्प्रजाः पालयेद्यत्तु पुत्रभोगः प्रकीर्तितः । कथितः पुत्रभोगोऽयं सोमेश्वरमहीभुजा ॥ ४१ ॥ इति पुत्रभोगः ॥ १२ ॥
अन्नभोगोऽयमधुना द्वयोरन्यो निगद्यते । बान्धवान्मण्डपाधीशान्सामन्तान् मान्यकान् भटान् ॥ ४२ ॥
आश्रितान् सुहृदो भृत्यान् गीतवाद्यविशारदान् । आहूय स्वोचिते स्थाने निर्वि (वे ) श्याग्रे तु भोजयेत् ॥ ४३ ॥
पुत्रैः पौत्रैः प्रपौत्रैव सह भुञ्जीत पार्थिवः । भोज्यं भक्ष्यं तथा पेयं लेां चोष्यं तथैव च ॥ ४४ ॥ इति पञ्चविधं हृद्यं पथ्यं भुञ्जीत भूपतिः । रक्तशालिर्महाशालिर्गन्धशालिः कलिङ्गकः ।। ४५ ।। मैण्डशालिः स्थूलशालिः सूक्ष्मशालिः सषष्ठिकः । रक्तत्वय (त्वाद्र)क्तशालिः स्यान्महाशालिर्महाकृतिः ॥ ४६ ॥
ivi
सुगन्धिर्गन्धशालिः स्यात्कलिङ्गोत्थः कलिङ्गकः । शुकशून्यो मुण्डशालिः स्थूलशालिस्तदाकृतिः ॥ ४७ ॥ सौक्ष्म्यात्तु सूक्ष्मशालिः स्याद्विमासः षष्ठिकः स्मृतः । एतान् शालीन् पृथक् सर्वान्मुसलैर्विदुषीकृतान् ॥ ४८ ॥
निक्षिप्य तण्डुलान् पट्टे विसृजेत्कणकांस्ततः । पाषाणमृत्तिकाशाली तृणपर्णं तुषं तथा ॥ ४९ ॥
यत्नाद्विकण्यापन येद्दासीभिस्तण्डुलेस्थितान् । अखण्डान् शोधितानेव क्षालितान् बहुशो " जलैः ॥ १३५० ॥
१ C D श्रीमत्सोम । २ C ल्य । ३D omits these two lines। ४ A लां F लान् । ५. शंस्तथा ।
Aho! Shrutgyanam