________________
विंशतिः ३]
मानसोल्लासः ।
पश्चिमाशामुखीं कन्यां पुञ्जस्योपरिवर्तिनीम् । उभाभ्यां करयोर्दत्वा तण्डुलान् जीरकादिकान् ॥ १५ ॥
जाते लग्ने तु मध्यस्थं पटमुत्सारयेत्ततः । हस्तस्थांस्तण्डुलान्कन्याकुमारौ क्षिपतौ मिथः ॥ १६ ॥
परस्परमुखाम्भोजविनिवेशितलोचनौ । कन्याया दक्षिणं पाणि कुमारकरमध्यगम् ॥ १७ ॥ कृत्वा कन्यापिता कन्यां धारापूर्वं समर्पयेत् । कुमारं च तथा कन्यां वेष्टयेत् पञ्चतन्तुभिः ॥ १८ ॥ प्रादक्षिण्यात्पञ्चवारान् कृतं सूत्रं समाचरेत् । निष्कासितं प्रयत्नेन उभाभ्यां पादयोरधः ॥ १९ ॥
कुङ्कुमेन समालिप्य कङ्कणं तद्विधीयते । अनेनैव प्रकारेण कन्यायाः कङ्कणं न्यसेत् ।। १३२० ॥
ततो होमं प्रकुर्वीत यथोक्तविधिना द्विजः । कनिष्ठामङ्गुलीं धृत्वा पत्युः पत्नी व्रजेदनु ॥ २१ ॥
प्रदक्षिणक्रमेणैव कृते होमे यथाविधि । वारत्रयं भ्रमित्वा तु सप्ततण्डुलर्पुञ्जकान् ॥ २२ ॥
आक्रमेत्पदविन्यासैस्ततः पट्टासने विशेत् । वा पार्श्वे विधातव्या पत्युः पत्नी शुभानना ॥ २३ ॥ ततो वस्त्राणि रम्याणि रत्नानि भूषणानि च । गजाश्वमहिषीर्गाश्च दासीदासान्धनं बहु ॥ २४ ॥ दद्यात्पुत्राय तत्पत्न्यै विवाहोत्सवमङ्गले । विप्रांश्च तोषयेत्तत्र वस्त्रकाञ्चनभूषणैः ॥ २५ ॥
यथार्ह तोषयेदन्यान्वस्त्रैः स्वर्णैश्च भूषणैः । वादित्राणां महानादैः शोभनैः शङ्खनिःस्वनैः ॥ २६ ॥
i
१ A पक्षवारान्कृत । २ A ले । ३ - D कुं । ४ A पूँज । ५ का ६Aरत्नानि कामन । A
१५
Aho! Shrutgyanam