________________
विंशतिः ३]
मानसोल्लासः।
१०१
सीमन्तस्यान्तरे हंसेतिलकेन विराजिताः । मुक्तामरकताकीणैर्नीलमाणिक्यलम्बनैः ॥ ६७ ॥ कर्णावतंसमुकुलैः कुण्डलैर्मणिमण्डितैः। अलकाभरणैः पुष्पैः कनत्काञ्चननिर्मितैः ॥ ६८ ॥ कण्ठभूषणकैर्दिव्यैर्मुक्तामाणिक्यसम्भवैः। पदकैरत्नशोभायैर्दिव्यरत्नयुतैः सरैः ॥ ६९ ॥ हारैर्मुक्तामयैः शुभैः स्तनस्थलविभूषणैः । विचित्ररत्नरचितैरङ्गदैर्वाहुभूषणैः ॥ ११७० ॥ साचिभूषणकैर्दिव्यैश्चडाकैरत्नराजितैः। कटकै रत्नरचितैर्नानारत्नाकुलीयकैः ॥ ७१॥ रत्नकाञ्चीकलापैश्च जङ्घाभूषणचूडकैः । नूपुरैः पादकटकैर्दिव्यरत्नविभूषितैः ॥ ७२ ॥ पार्दै:(दैः)पदकराजीभिः किङ्किणीजालकैरपि । अभिशाखाविभूषाभिः कणन्तीभिः पदे पदे ॥ ७३ ॥ मुद्रिकाभिर्विचित्राभिर्भूषिता नृपयोषितः। दिव्यवस्त्रपरीधानाः पदकञ्चुकशोभिताः ॥ ७४ ॥ सौमकासकैर्युक्ता गन्धमाल्यविभूषिताः। श्रीखण्डक्षोदशुभ्राङ्गन्यः कुङ्कुमद्रवरञ्जिताः ॥ ७५ ॥ सान्द्रकस्तूरिकापत्रवल्लीभिः समलङ्कृताः । तिलकैर्विविधैर्भव्यैर्नानावणैमनोहरैः ॥ ७६ ॥ मनोरमारमण्यस्तास्तरुण्यः सुखभूमयः । यथायोग्यं यथास्थानं यथाप्रेम यथासनम् ॥ ७७ ॥ समन्तान्नृपमावेक्ष्य निविष्टाः पर्युपासते । काश्चित्तुरङ्गमारूढाः काश्चिदश्वतरीस्थिताः ॥ ७८ ॥
१F स। २ A हन्त । ३ A णे, गै? । ४ A णैर्मुख्यै । ५A ध्वी F वि । ६ A र । ७ CF दे । 4D कागल । ९D युक्तैः । १० A मं ।
Aho! Shrutgyanam