________________
मानसोल्लासः।
[अध्यायः ११
चामरैर्हस्तविन्यस्तैर्वीजयन्ति वराङ्गनाः । सहस्राक्षमुखाभासैबर्हिबर्हविनिर्मितः ॥ ५५ ॥ कूर्चकैर्वीजयन्तीह श्यामलाः कुन्तलाङ्गनाः । वालकव्यजनै रम्यैः सौरभ्येण मनोहरैः ॥ ५६ ॥ वीजयन्ति महीपालं कामिन्यः कामदेवताः । चन्द्रमण्डलसङ्काशेर्नानापट्टविनिर्मितैः ॥ ५७॥ वीजयन्ति धरानाथं वीजनैगलोचनाः । तालपत्रसमुद्भूतै रत्नकालंकृतैः शुभैः ॥ ५८ ॥ वीजनैश्चतुरनैश्च वीजयन्ति सुमध्यमाः। शोभार्थ विभवार्थं च स्वेदापनयनाय च ॥ ५९ ॥ चामरैर्वीजनं यत्तु स भोगश्चामराभिधः । एवं चामरभोगोऽयं भाषितः सोमभुमुजा॥ ११६०॥
इति चामरभोगः ॥ १० ॥ अधुनाऽऽस्थानभोगोऽयं कथ्यते जनवल्लभः । चामरैय॑जनैरेवं वीज्यमानो महीपतिः ॥ ६१ ॥ आस्थानमण्डपन्यस्तवरसिंहासनस्थितः । समाहूय प्रतीहारं सर्वानानं समादिशेत् ॥ ६२ ॥ ततो दौवारिकाहूता विशन्ति नृपमन्दिरम् । पट्टीपिनद्धदोलान्तःस्थिताः शुद्धान्तयोषितः ॥ ६३॥ विचित्रछत्रसञ्छन्नछायाश्चामरवीजिताः । सौविदल्लकरच्छन्दवेत्रदण्डनिवारणैः ॥६४ ॥ अपसापसपेंति गच्छ गच्छेति तर्जनैः। सुदूरोत्सारिताशेषमार्गस्थजनवर्जिताः ॥ ६५ ॥ प्रविशेयुपस्थानं सर्वाभरणभूषिताः । नानारत्नमयैर्दिव्यैश्चूडामण्डनदण्डकैः ॥६६॥ A यच्छया । २ F भेण । ३ D हि । ४ D F अभ्र । ५ A चित्र। ६ A रो। ७F डी।
-
--
Aho! Shrutgyanam