SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ९६ मानसोल्लासः । सौवर्णकुसुमैः कृतं मुक्तास रसमन्वितम् । बृहन्माणिक्यनीलैश्च लम्बनं चूडिभूषणम् ॥ ६ ॥ पिचुमन्दफलाकारैमौक्तिकै मलकैः कृतम् । माणिक्यै गरुडैहरैर्मुकुलं कर्णभूषणम् ॥ ७ ॥ तस्या बहिश्च संलग्ना लम्बनी नीलनिर्मिता | नवभिर्दशभिर्वापि स्थूलमुक्ताफलैः कृता ॥ ८ ॥ कण्ठप्रमाणरचिता सरिका गलभूषणम् । ततो बहिश्च संलग्ना वज्रसङ्कलका शुभा ॥ ९ ॥ सिंहसमाकारौ स्वर्णरत्नविनिर्मितौ । मुक्तकसंयुक्तौ नीलमाणिक्यलम्बनौ ॥ १११० ॥ कञ्चुके कीलितौ कार्यों भुजभूषणको वरौ । नामतो बाहुवलयौ पुंसि यावङ्गदाभिधौ ॥ ११ ॥ काञ्चनीभिः शलाकाभिः सुसूक्ष्माभिर्विनिर्मितौ । मणिबन्धमितार्दूर्ध्वं वलयैर्वर्धितैः क्रमात् ॥ १२ ॥ प्रादेशमात्रकं दैर्ध्य विस्तारे बाहुवेष्टनम् । द्विधा विभज्य कर्तव्यं ग्रथितं कीलकेन तु ॥ १३ ॥ १४ अनेनैव प्रकारेण वज्रमाणिक्यमौक्तिकैः । चूडकं मण्डनं स्त्रीणां प्रकोष्ठस्य विभूषणम् ॥ १४ ॥ अनेनैव प्रकारेण तदर्धेन विनिर्मितम् । अर्धचूडमिति ख्यातं स्त्रीणां प्रियतमं सदा ॥ १५ ॥ चतुरङ्गुलविस्तारं जघनाभोगवेष्टितम् । सौवर्णरत्नरचितं सूत्र ( स ) कैलम्बनयुतम् ॥ १६ ॥ हेमघर्घरघण्टाभिर्निर्मितं स्वसंयुतम् । काचीदामेति विख्यातं कटिभूषणमुत्तमम् ॥ १७ ॥ [ अध्यायः ८ १ DF: । २F ना । ३ CFलि । ४ A तासु । ५ A शक । ६D मणिक । ७ एज । ८ .D म्बि । ९ A ना। १० A पूर्व । ११ A त्रि । १२A द्वि । १३ A च । १४ D न्थि । - १५ A दं । १६ A त । Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy