________________
विंशतिः३]
मानसोल्लासः।
वज्राणि च ततोऽप्यन्तर्वज्रगर्भमितीरितम् । एवं बहिस्थमुक्तं यन्मध्यवत्रैश्च पूरितम् ॥ ९४ ॥ मध्ये माणिक्यसंयुक्तं भुवि मण्डनमुच्यते । नीलैमरकतैश्चैव माणिक्यैश्च करम्बितम् ॥ ९५ ॥ यद्रूपं(पै)रचितैम(तम)ध्ये तत्तत्संज्ञकमुच्यते । सोपानक्रमविन्यस्तवज्रपङ्किविराजितम् ॥ ९६ ॥ षडष्टनेमिभिः कान्तं कुण्डलं तत्प्रचक्षते । शोधितेन सुवर्णेन सुचिरेणातिकान्तिना ॥ ९७ ॥ शृङ्खला विविधाः कार्या स्ताटङ्कटकानि च । स्त्रीपुंसयोः समानानि भूषणान्यत्र विस्तरात् ॥ ९८ ॥ कथितान्यथ वक्ष्यामि स्त्रीणां पुंसां पृथक् पृथक् । अश्वत्थपत्रसङ्काशं सुवर्णेन विमिश्रितम् ॥ ९९ ॥ माणिक्यवज्रखचितमायतैौक्तिकैर्युतम् । तत्र मुक्ताफलैः पार्वे सूसकाभ्यां विराजितम् ॥ ११०० ॥ ताभ्यां बहिर्मरालाभं नानारत्नैः प्रकल्पयेत् । तदूर्ध्वं वज्रमाणिक्यमौक्तिकैः कृतवन्धनम् ॥ १॥ तदिदं हंसतिलकं योपित्सीमन्तभूषणम् । कैनत्काञ्चनपट्टेन पिनद्धं वलयाकृतिः(ति) ॥२॥ मुक्ताजालं तदूर्ध्वं च कृतं तद् दण्डकं भवेत् । क्रमशो वर्धमानं तच्चूडामण्डनमुत्तमम् ॥ ३ ॥ केतकीदलसङ्काशं कनत्काञ्चनकल्पितम् । दण्डकस्यो भागस्य भूषणं तदुदाहृतम् ॥ ४॥ सौवर्णकल्पितं पद्म नानारत्नविराजितम् ।
चूडिकापरभागस्य भूषणं परिकीर्तितम् ॥ ५॥ १ A भिंतमी । २ A ड। ३D कण । ४ A लस्त । ५ mss कृतं तं D कृतदण्डकसंभवेत् । ६A डी।
Aho! Shrutgyanam