SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १४ मानसोल्लासः। [अध्यायः८ AAAAAAA"" मध्ये च मणिना युक्तं रविमण्डलमीरितम् । ऋज्वायतचतुष्कोणक्रमोन्नतनिवेशिभिः ॥ ८२ ॥ वज्रमध्यगमाणिक्यैनन्द्यावर्ताङ्गुलीयकम् । माणिक्येन सुरङ्गण मौक्तिकेन सुशोभिना ॥ ८३ ॥ प्रवालनाभिरम्येण तथा मरकतेन च । पुष्परागेण वज्रेण नीलेन परिशोभिना ॥ ८४ ॥ गोमेदकेन रत्नेन वैडूर्येण विनिर्मितम् । रत्नैर्नवग्रहच्छायैर्नवभिः परिकल्पितम् ॥ ८५ ॥ नवग्रहमितिख्यातमङ्गुलीयकमुत्तमम् । अङ्गुलीवेष्टकं वजैर्वेष्टितं वज्रवेष्टकम् ॥ ८६ ॥ अन्य रत्नैश्च यत्त्वेवं तद्वद्वेष्टकमुच्यते । हीरयोरुभयोर्मध्ये कीलितं हीरमुत्तमम् ॥ ८७ ॥ त्रिहीरकमिति ख्यातमङ्गुलीयकमुत्तमम् । यत्तु नागफणाकारं बा(ब)हुरत्नविभूषितम् ॥ ८८ ॥ अङ्गुलीवलये(य) वत्रैर्वेष्टिते(तं) शक्तिमुद्रिका । अन्यैश्च विविधै रत्नैः सन्निवेशविशेषतः ॥ ८९ ॥ नानारूपाभिधानैश्च कल्पिता मुद्रिका(:)शुर्भाः । केवलैमौक्तिकैरेव तु(व)लये तु निशेविता(वेशितैः) ॥ १०९० ॥ मुक्ताताडकसंज्ञं तत्कर्णभूषणमुत्तमम् । वलयद्वयविन्यस्तमुक्ताफलविराजितम् ॥ ९१॥ मध्ये नीलेन संयुक्तं द्विराजित(क)मुदाहृतम् । एवं त्रिराजिकं प्रोक्तं पूर्णमध्यं च मौक्तिकैः ॥ ९२ ॥ तत्पूर्णमध्यमाख्यातं मुक्ताफलविभूषणम् । मौक्तिकानि बहिः पंक्तौ तदत (त्न) फुलकं ततः ॥ ९३ ॥ १F वज्रतं । २D टि । ३ F लैव । ४ F पवि । ५ D ताः । ६ A भा । ७A ळ । + A D षु। ९ Dणे। Aho ! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy